पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१५

पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६०७
संस्काररत्नमाला
( गौणकालातिक्रमप्रायश्चित्तम्, होमद्रव्याणि )
 

 एतद्गौणकालातिक्रमप्रायश्चित्तमाह स एव--

"तमतिनीय चतुर्गृहीतमाज्यं जुहुयाद्यदि सायं
दोषावस्तर्नमः स्वाहा यदि प्रातः प्रातर्वस्तर्नमः स्वाहा" इति ।

 यत्तु माविलगृह्यम्--

"अथ यदि गृह्येऽग्नौ सायंप्रातर्होमयोर्हव्यं होतारं नाधिगच्छेत्कथं कुर्या[१]-
दासायमाहुतेः प्रातराहुतिर्नात्येत्याप्रातराहुतेः सायमाहुतिः" इति ।

 यत्तु बौधायनवचनम्--

"आसायं कर्मणः प्रातराप्रातः सायं कर्मण आहुतिर्नातिपद्येत पार्वणं पार्व-
णान्तरात्" इति ।

 यच्च निदानसूत्रम्--

"सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः सायमाहुतेः पूर्णः पक्षो दर्शस्य
कृष्णः पक्षः पूर्णमासस्य" इति ।

 तद्राष्ट्रभ्रंशादिमहापत्तिविषयम् ।

 प्रथमौपासनहोमे विशेषमाह शौनकः--

"यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति ।
उपक्रम्योत्तरस्याह्नः सायं परिचरेदमुम्" इति ।

 सुदर्शनभाष्ये तु यदि रात्रौ नवनाडिकामध्येऽग्न्युत्पत्तिस्तदा तदैव होमारम्भः । तदुत्तरं चेत्परदिने सायमारम्भ इत्युक्तम् ।

अथ होमद्रव्याणि ।

 तत्र व्रीहयो यवा वा मुख्याः । "नित्य सायंप्रातर्व्रीहिभिर्यवैर्वा हस्तेनते आहुती जुहोति" इति गृह्योक्तत्वात् ।

 |चन्द्रिकायां स्मृत्यन्तरे--

"हविस्तु त्रिविधं प्रोक्तं कृतं चैव कृताकृतम् ।
अकृतं च क्रमादेषां लक्षणं सम्यगुच्यते ।
कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् ।
व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा बुधैः" इति ।

 अकृतं प्रक्षाल्य होतव्यम् । तथा च च्छान्दोग्यगृह्यम्-- ' अ[२]

कृतं चेत्प्रक्षाल्य जुहुयात्' इति ।



  1. ग. र्यादित्यासा । ङ. च. र्याद्यत्त्वासा' ।
  2. ख. ग. ङ. च. कृतं ।