पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३६

पुटमेतत् सुपुष्टितम्
६२८
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( पर्वनिर्णयः,यागकालविवेकः )
 

 तथा च मत्स्यब्रह्माण्डपुराणयोः--

"कुह्विति कोकिलेनोक्ते यावान्कालः समाप्यते ।
तत्कालसंज्ञिता चैषा अमावास्या कुहूः स्मृता" इति ॥

 इति संधिस्वरूपे ज्ञाते संधौ यजेतेतिश्रुतेः संधौ यागः प्राप्तस्तस्य चातिसूक्ष्मत्वेन कर्मानुष्ठानायोग्यत्वात्संधिशब्दः संधिपार्श्वद्वयं लक्षयति । तथा च संधिपार्श्वद्वये संधौ यजेतेतिश्रुतिर्यागं विधत्ते । अत एव श्रुत्यन्तरम्--'संधिमभितो यजेत' इति ।

 हेमाद्रौ बौधायनोऽपि--

"सूक्ष्मत्वात्संधिकालस्य संधेर्विषय उच्यते ।
सामीप्यं विषयं प्राहुः पर्वेणाथ परेण च" इति ॥

 अत्र पूर्वपरशब्दाभ्यां क्रमेण संधेः पूर्वं पर्वदिनं परं प्रतिपद्दिनं च क्रमेणाभिधीयते ।

 तत्र कृत्स्नस्य पर्वणः प्रतिपदश्च ग्रहणे प्राप्ते नियममाह वृद्धशातातपः--

"पर्वणो यश्चतुर्थोंऽश आद्याः प्रतिपदस्त्रयः ।
यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः" इति ॥

 यागकालविवेकमाह गोभिलः--

"आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् ।
तदहर्याग इष्येत परतश्चेत्परेऽहनि" इति ॥

 तथा--

"पर्वप्रतिपदोः संधिरर्वागावर्तनाद्यदि ।
तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः" इति ॥

लौगाक्षिः--

"पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्य तत्र पूवेद्युस्तदहर्याग इष्यते" इति ॥

 स्मृत्यन्तरेऽपि--

"आवर्तने यदा संधिस्ततः पूर्वमथापि वा ।
तस्मिन्नहनि यष्टव्यं परतश्चेत्परेऽहनि ॥
आवर्तनात्परः संधिर्यदि तस्मिन्नुपक्रमः ।
परेद्युरिष्टिरित्येव पर्वद्वयविनिर्णयः" इति ॥

 तथा--

"अपराह्णेऽथ वा रात्रौ यदि पर्व समाप्यते ।
" उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते" इति ॥

पूर्वाह्ण आवर्तने वा संधौ तस्मिन्नेवाहनि यागः । पूर्वेद्युरन्वाधानादि । आव