पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४४

पुटमेतत् सुपुष्टितम्
६३६
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( अन्वारम्भणस्थालीपाकप्रयोगः )
 

यद्यपि चतुर्होतृहोमादिकं गृह्ये नोक्तं तथाऽपि दर्शपूर्णमासस्थालीपाकयोर्दर्शपूर्णमासेष्टिन्यायसाम्यात्केषांचिद्दर्शपूर्णमासधर्माणां मातृदत्तेनोक्तत्वात्तदुपलक्षणेन चैतेषामप्यत्र प्राप्तिः । शिष्टाचारश्चाप्यत्रास्ति ।

 आचम्य प्राणानायम्य देशकालौ संकीर्त्य दर्शपूर्णमासस्थालीपाकावारभमाणश्चतुर्होतारं सग्रहं होष्यामीति संकल्प्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुचं दर्वीं वा स्रुवमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निं परिस्तीर्य तूष्णीं परिषिञ्चेत् । न वा परिस्तरणपरिषेकौ ।

 ततोऽग्निमलंकृत्य स्रुचि दर्व्यां वा सकृद्गृहीत्वाऽऽसादितां समिधमभ्याधाय, पृथिवी होतेत्यस्य चतुर्होतृमन्त्रस्य वाचस्पते वाचो वीर्येणेतिग्रहसंज्ञकमन्त्रसहितस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । होमे विनियोगः । 'ॐ पृथीवी होता० बृहस्पतिरुपवक्ता' इति मनसोक्त्वा 'ॐ वाचस्पते वाचो० मिन्द्रियाय स्वाहा' इत्यग्नेर्दक्षिणतस्तिष्ठञ्जुहोति । वाचस्पतये ब्रह्मण इदं न मम ।

 ततः परिस्तरणसत्त्वे तान्युत्तरे विसृजेत् । ऋष्यादिस्मरणे विकल्पः । ततः सारस्वतहोमौ दर्शपूर्णमासस्थालीपाकावारभमाणः सारस्वतौ होमौ होष्यामीति संकल्प्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुचं दर्वीं वा स्रुवमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्समिद्द्वयमाज्यं चाऽऽसाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निं परिस्तीर्य तूष्णीं परिषिञ्चेत् । न वा परिस्तरणपरिषेकौ ।

 ततोऽग्निमलंकृत्य स्रुवेण स्रुचि दर्व्यां वाऽष्टवारं द्विर्वा गृहीत्वाऽऽसादितं समिद्द्वयमग्नावभ्याधाय, पूर्णा पश्चादित्यस्य सोमः पूर्णमासस्त्रिष्टुप् । होमे विनियोगः । 'ॐ पूर्णा प० मादयन्ता स्वाहा' इत्यर्धाज्येनाग्नेर्दक्षिणतस्तिष्ठञ्जुहोति । पूर्णमासायेदं न मम ।

 यत्ते देवा अदधुरित्यस्य सोमोऽमावास्या त्रिष्टुप् । होमे विनियोगः ।'ॐ यत्ते देवा अ० सुवीर स्वाहा' इत्यवशिष्टेनाऽऽज्येन तथैव जुहोति । अमावास्याया इदं न मम । ऋष्यादिस्मरणे विकल्पः । परिस्तरणसत्त्वे तान्युत्तरे विसृजेत् ।

अथान्वारम्भणस्थालीपाकप्रयोगः ।

 दर्शपूर्णमासस्थालीपाकावारभमाणोऽन्वारम्भणस्थालीपाकं करिष्य इति