पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४७

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६३९
संस्काररत्नमाला
( पार्वणस्थालीपाकयोः प्रयोगः )
 

अथ पार्वणस्थालीपाकयोः प्रयोगः ।

 अन्वाधानदिनेऽनाहिताग्निरौपासनहोमानन्तरमाहिताग्निश्चोपवसथीयदिवसकर्मसमाप्त्यनन्तरं सपत्नीक आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं सत्यधिकारे यावज्जीवं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति संकल्पं कुर्यात् । दर्शपूर्णमासेष्ट्यारम्भोत्तरं पार्वणस्थालीपाकौ न कार्यावित्येतन्मतमेव स्वी क्रियत इति निश्चिते सति दर्शपूर्णमासेष्ट्यारम्भपूर्वतनकालपर्यन्तं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति संकल्पे विशेषः । वस्तुतस्तु करणपक्ष एव युक्तः ।

 ततो गणेशं संपूज्य पुण्याहादि वाचयित्वाऽग्निः प्रीयतामिति वदेत् । एतदन्तं प्रथमप्रयोग एव न तु प्रतिप्रयोगम् ।

 ततः पुनराचमनप्राणायामदेशकालसंकीर्तनानि कृत्वा श्रीपरमेश्वरप्रीत्यर्थं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्ये । तत्रेदानीं पूर्णमासस्थालीपाकेन श्वो यष्टाह इति संकल्पं कुर्यात् । सद्यःपक्षे सद्यो यक्ष्य इति । दर्शे तु दर्शस्थालीपाकेन श्वो यष्टाह इत्येतावानेव संकल्पः । दर्शस्थालीपाकस्तु द्व्यहकाल एव । पूर्णमासस्थालीपाकेन यष्टाहे दर्शस्थालीपाकेन यष्टाह इति भिन्नौ वा संकल्पौ ।

 एवं संकल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पूर्णमासस्थालीपाकयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अग्निमेकया चर्वाहुत्या यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्ये । एते देवते श्वो यष्टाह इत्युक्त्वा व्याहृतिभिरन्वाधानसमिधोऽभ्यादध्यात् । सद्यःपक्षे सद्यो यक्ष्य इति । एवं दर्शे । तत्र दर्शस्थालीपाकयागकर्मणीति विशेषः ।

 ततोऽग्निं परिस्तीर्य पात्रासादनाद्यर्थदर्भांश्छित्त्वा मुष्टिं बद्ध्वौपासनाग्नेरुपरि यथा न पतति तथा निदधाति । श्रौते दृष्टत्वात्सायंहोमोत्तरं वा परिस्तरणम् । अस्मिन्दिने दंपती माषमांसलवणक्षारादिवर्जं सर्पिर्मिश्रमशक्तौ दधिमिश्रं पयोमिश्रं वा येन धान्येन यक्ष्यमाणस्तद्धान्यवर्जं चाश्नीतः । अशक्तावेतदप्यश्नीतः ।

 ततः श्वोभूते प्रातरौपासनहोमानन्तरं श्रौताग्निमांश्चेदिष्ट्युत्तरमुत्तरेणाग्निं दर्भा[१]नास्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रं तण्डुलप्रस्कन्दनार्थं पात्रं शूर्पं



  1. क. र्भान्सस्ती ।