पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५०

पुटमेतत् सुपुष्टितम्
६४२
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( आग्रयणम् )
 

 प्रथमे दर्शस्थालीपाकेऽतिपन्न आगामिदर्शे विभ्रष्टस्थालीपाकं कृत्वा स्वकाले स्थालीपाकं कुर्यादित्येके ।

 विभ्रष्टस्थालीपाकं कृत्वा गौणकालेऽपि प्रथमदर्शस्थालीपाकानुष्ठानमित्यन्ये ।

 पथिकृद्वैश्वानर्यावेव कुर्यान्न तु विभ्रष्टस्थालीपाकमित्यपरे ।

 मम तु पौर्णमासस्थालीपाकारम्भेण दर्शस्थालीपाकस्याऽऽरब्धत्वान्न विभ्रष्टस्थालीपाक इति युक्तं प्रतिभाति । अन्यथा पृथगन्वारम्भणस्थालीपाकोऽप्यारम्भनिमित्तः स्यादिति ।

 पिण्डपितृयज्ञारम्भात्पूर्वं यदि पत्नी रजस्वला तदाऽग्रिमदर्शे सप्तहोतारं हुत्वा पिण्डपितृयज्ञ आरब्धव्य इति शतद्वयीव्याख्यायाम् । एवमाशौचेऽपि ।

इति दर्शपूर्णमासस्थालीपाकप्रयोगः ।

अथाऽऽग्रयणम् ।

 तच्च यद्यपि गृह्ये नोक्तं तथाऽपि "चतुःशरावमोदनं पक्त्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो हुत्वा तद्व्यञ्जनं भोजयति" इतिश्रौतसूत्रोक्तानुकल्पाश्रितगृह्योक्तसामान्यस्थालीपाकविधिना कर्तव्य ए(मे)व । आचारात् । सूत्रकारेणानुक्तत्वात्कृताकृतः(म्) । करणपक्षे प्रतिसंवत्सरं श्रोताग्रयणारम्भपर्यन्तं कर्तव्य ए(मे)व न तु तदनन्तरम् । अकरणपक्षे नवान्नभक्षणे दोषोऽपि नास्ति । विधानाभावात् । आचारानुरोधात्करणं वरम् ।

 तस्य कालः श्रौतसूत्रे--

 "यदीष्ट्या यदि पशुना यदि सोमेन तैरमावास्यायां पौर्णमास्यां वैव यजेत" इति ।

 अत्रामावास्यापौर्णमासीशब्दाभ्यां तदुत्तरवर्तिन्योः प्रतिपदोरपि ग्रहणमिति वैजयन्तीकारः । एतत्समानार्थक आपस्तम्बसूत्रे रामाण्डारस्त्वमावास्यापौर्णमासीशब्दाभ्यां तदन्त्यक्षणो गृह्यते, तेन तद्वत्यहोरात्रे भवतीत्याह ।

 माधवोऽपि--"इष्ट्यादिविकृतिः सर्वा पर्वण्येवेति निर्णयः" इति ।

 अत्र देवनक्षत्राणि रेवतीं चाऽऽह बौधायनः--

"अपि वा देवनक्षत्रे रेवत्यां वाऽऽग्रयणेष्टिं कुर्वीत" इति ।

 देवनक्षत्रे कर्मकर्तव्यताविषये श्रुतिरपि-

 "यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते" इति ।