पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५५

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६४७
संस्काररत्नमाला
( व्रीह्याग्रयणस्थालीपाकप्रयोगः )
 

शरावं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चेत्यासादयेत् । मेक्षणप्रहरणपक्षे शरावासादनोत्तरं मेक्षणासादनम् ।

 ततः पवित्रे कृत्वाऽग्नेः पश्चाच्छूर्पं निधाय तस्मिन्पवित्रे प्रागग्रे संस्थाप्याऽऽसादितं शरावमादाय व्रीहिभिः पूरयित्वा तेन शूर्पे सर्वा देवता अभिध्यायन्निर्वपति । एवं पुनस्त्रिवारम् ।

 तत उत्तरेणाग्निं निरुप्तव्रीहिमच्छूर्पं निधायाज्यानीहोमं कुर्यात् । स यथा । उत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुचं स्रुवमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्होमपर्याप्तमाज्यं पञ्च समिधश्चाऽऽसाद्य पूर्वकृते एव पवित्रे गृहीत्वा प्रोक्षणीः संस्कृत्याज्यानीहोमार्थानि पात्राण्युत्तानानि कृत्वा प्रोक्ष्य स्रुवस्रुचोर्निष्टपनादि पुनराहारमाज्यं त्रिरुत्पूयेत्येतदन्तं कृत्वा पवित्रे प्रज्ञाते निदध्यात् । अन्यकरणपक्षेऽस्त्येव प्रहरणं नाग्नेः परिस्तरणं पूर्वकृतपरिस्तरणेनैव सिद्धेः ।

 ततस्तूष्णीं परिषिच्य स्रुचि स्रुवेण पञ्च गृहीत्वा पञ्च समिधोऽभ्याधाय शतायुधायेत्यादीनां पञ्चानां मन्त्राणामग्निर्ऋषिः । प्रथमस्येन्द्रो देवता । द्वितीयस्य द्यावापृथिव्यौ । तृतीयस्य ग्रीष्मो हेमन्तो वसन्तः शरद्वर्षाश्च । चतुर्थस्येदुवत्सरः परिवत्सरः संवत्सरश्च । पञ्चमस्य देवाः पितुश्च । सर्वेषां जगती छन्दः । होमे विनियोगः । इत्यृष्यादि स्मरेत् । न वर्ष्यादिस्मरणमत्र । 'ॐ शतायुधाय० विश्वा स्वाहा' । इन्द्रायेदं न मम । 'ॐ ये चत्वारः० सर्वे स्वाहा' द्यावापृथिवीभ्यामिदं न मम । 'ॐ ग्रीष्मो हेमन्त० स्याम स्वाहा' । ग्रीष्माय हेमन्ताय वसन्ताय शरदे वर्षाभ्यश्चेदं न मम । 'ॐ इदुवत्सराय० हताः स्याम स्वाहा' इदुवत्सराय परिवत्सराय संवत्सराय चेदं न मम । 'ॐ भद्रान्नः श्रेयः० स्योनः स्वाहा' । देवभ्यः पितवे चेदं न मम । इति पञ्चाज्यानीरग्नेर्दक्षिणतस्तिष्ठन्हुत्वा स्थालीपाकपात्रतः प्रोक्षणीपात्रमादाय प्रोक्षणीः संस्कृत्य हविष्प्रोक्षणादि चतुःशरावपरिमितचरुश्रपणान्तं कुर्यात् ।

 ततश्चर्वभिघारणादि बर्हिष्यासादनान्तं कृत्वाऽदित इत्यादिभिरग्निं परिषिच्याऽऽसादितामेकां समिधमभ्यादध्यात् ।

 ततो मेक्षणेन चरोरुपहत्य 'ॐ इन्द्राग्निभ्या स्वाहा' इति जुहोति । इन्द्राग्निभ्यामिदं न मम ।

 ततः पुनस्तथैवोपहत्य 'ॐ विश्वेभ्यो देवेभ्यः स्वाहा' इति जुहोति । विश्वेभ्यो देवेभ्य इदं न मम[१] । पुनस्तथैवोपहत्य 'ॐ द्यावापृथिवीभ्या स्वाहा' इति



  1. ङ. च. म । ततः पु ।