पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९७

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६८९
संस्काररत्नमाला
( दीपविसर्जने नियमः )
 

 ज्योतिर्निबन्धे । ([१]आचारप्रकाशे[२] स्मृ[३]तिसंग्रहे--

"कञ्चुकोत्थेन मरुता दीपं नैव निवारयेत् ।
आननोत्थेन वातेन हस्तसंजातवायुना ॥
विसृजेति समुच्चार्य लोपयेद्दीपमञ्चलात् ।
तावच्च तूष्णीं स्थातव्यं यावच्छेषः प्रशाम्यति" इति ॥

 विसृजेत्यत्र दीपः संबोध्यः । हे दीप विसृज ज्योतिरिति विसृजेत्यस्यार्थः ।

 अञ्चलादञ्चलेन । शेषो दीपशेषः ।)

"प्रदोषकाले या नारी पतिसङ्गं समाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
पादो लग्नतनुश्चैव उच्छिष्टं ताडनं तथा ।
कोपं(पो) रोषं च(पश्च) निर्भर्त्सं(र्त्सः) संयोगे न च दोषभाक् ॥
कञ्चुकेन समं नारी भर्तुः सङ्गं समाचरेत् ।
त्रिभिर्वषैश्च मध्ये वा विधवा भवति ध्रुवम् ॥
ताडपत्रमिलत्कर्णा यदि मैथुनमाचरेत् ।
पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥
कामातुरेण पतिना संयोगे यदि याचिता ।
निवारयति तं नारी बालरण्डा भवेत्सदा ॥
([४]ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां पितृभिः सह मज्जति ॥)
कुङ्कुमं चाञ्जनं चैव ताम्बूलं सिन्दुरं तथा ।
धौतवस्त्रं च कुसुमं संयोगे च शुभावहम् ॥
नमस्कृत्वा(त्य) भर्तृपादौ पश्चाच्छय्यां समाविशेत् ।
नारी सुखमवाप्नोति न चेद्दुःखस्य भागिनी ॥
गलत्ताम्बूलवदनां नग्नामाक्रन्दरोदनाम् ।
दुर्मुखां(खीं) च क्षुधायुक्तां संयोगे परिवर्जयेत् ॥
भर्त्रुच्छिष्टं सदा भोज्यमन्नं ताम्बूलमेव च ।
उच्छिष्टं न तु भुञ्जीत गृहस्थो ह्यधरं विना ॥



  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोर्नास्ति ।
  2. ग. शे--क ।
  3. च. स्मृत्यर्थस ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. ङ. च. पुस्तकेषु नास्ति ।