पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०२

पुटमेतत् सुपुष्टितम्
६९४
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( गर्भाधानप्रयोगः )
 

 अत्र प्रभूतदोषे शुभकालिकत्वापेक्षाया विधानादप्रभूतदोषे तस्मिन्नेवर्तौ शान्तिकर्मोत्तरं गर्भाधानानुष्ठानमभ्यनुज्ञातं भवति । तच्छान्तिकर्म शान्तिरत्नमालायां द्रष्टव्यम् ।

अथ गर्भाधानप्रयोगः ।

 तत्र रजोदर्शने सति त्रिरात्रं रजस्वला स्त्री, आञ्जनाभ्यञ्जननित्यस्नानदिवास्वापाग्न्यादिस्पर्शरज्जुसर्गबहिर्गमनप्रलेखनच्छेदनदन्तधावनमांसाशनग्रहवीक्षणदेवतावीक्षणाश्लीलाचरणताम्बूलभक्षणतालवृन्तादिबन्धनवस्त्रान्तरधारणपीठशय्याधिरोहणहरिद्रागन्धमाल्यादिधारणकांस्यपात्रभोजनमुखशोधनक्रीडाशिल्पक्रियागृहकर्माध्वगमनरात्रिभोजनशिरोवलेखननखनिकुन्तनपरपुरुषावेक्षणहसनबहुभाषणबहुभोजनादीनि वर्जयेत् । त्रिरात्रमशुचिस्तिष्ठेत् । दग्धे शरावे भुञ्जीयात् । पेयमञ्जलिना पिबेन्महता मृन्मयेन वा पात्रेण ताम्रेण वा । प्रथमर्तौ तु हरिद्रागन्धमाल्यादिधारणे ताम्बूलभक्षणे च न दोष इति विशेषः । अन्यत्समानम् । स्मार्तगार्ह्ययोः कर्मणोः पञ्चमेऽहनि स्नाताऽधिकारिणी भवति । श्रौते कर्मणि चतुर्थेऽहन्यपि स्नाताऽधिकारिणी ।

 कर्ता रजोनिवृत्तौ सत्यां चतुर्थ्यादित्रयोदश्यन्तास्वेकादशीत्रयोदशीरहितासु रात्रिषु मध्ये, अन्यथा पञ्चम्यादिषु मध्ये यस्यां कस्यांचिद्रात्रौ षष्ठ्यष्टमीचतुर्थीचतुर्दश्येकादशीपूर्णिमामावास्याव्यतिरिक्तायां यस्यांकस्यांचिद्विष्ट्यादिरहितायां क्षयाहादिश्राद्धासंबद्धायां च तिथौ रविभौमशनैश्चरव्यतिरिक्ते यस्मिन्कस्मिंश्चिद्वासरे श्रवणरोहिणीहस्तानूराधास्वातीरेवत्युत्तराशततारकाख्येषु जन्मनक्षत्रभिन्नेषु नक्षत्रेषु यस्मिन्कस्मिंश्चिन्नक्षत्र उत्पातपापग्रहैरदूषितेऽतिसंकटे पुष्पश्रविष्ठामृगशीर्षाश्विनीचित्रापुनर्वस्वन्यतमे नक्षत्रे वा शुभस्थानस्थिते चन्द्रे मेषवृश्चिकमकरकुम्भव्यतिरिक्ते लग्ने च गर्भाधानं कुर्यात् । तत्र युग्मासु पुत्रार्थी । अयुग्मासु कन्यार्थी । नात्र गुरुशुक्रास्तमलमासादिनिषेधः ।

 कर्ता ज्योतिर्वित्प्रोक्ते सुमुहूर्ते प्रातः कृतनित्यक्रियः सभार्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममैतद्भार्याधिकरणजनिष्यमाणसर्वगर्भसंस्कारातिशयसिद्धिबीजगर्भसमुद्भवैनोनिबर्हणक्षेत्रसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमस्यां गर्भाधानं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र ब्रह्मा प्रीयतामिति विशेषः ।