पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०९

पुटमेतत् सुपुष्टितम्
[नागबलिप्रयोगः]
७०१
संस्काररत्नमाला

प्रसादैः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥
पूज्यैः कृतः पवित्रोऽहं भवेयं द्विजसत्तमैः" ।

 इति श्लोकान्पठित्वा मामनुगृह्णन्तु भवन्त इति पर्षदं प्रणमेत् ।

 ततः कर्ता निबन्धपूजनं पर्षत्पूजनमनुवादकपूजनं च कुर्यात् । अनुवाद[१]काय भृतिरूपां यथाशक्ति दक्षिणां दद्यात् ।

 ततोऽनुवादकोऽमुकशर्मणा त्वयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य[२] दोषस्य परिहारार्थं पर्षदुपदि[३]ष्टचतुर्दशकृच्छ्राचरणपूर्व[४]कयथाविधिसर्पसंस्कारं कृत्वा त्वं शुद्धो निरुपद्रवो भविष्यसीत्युपदेशस्त्रिः ।

 ततः कर्ता, ओमित्यङ्गीकृत्य पर्षदं नमस्कृत्य विसर्जयेदनुवादकं च ।

 तत आचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य[५] दोषस्य परिहारार्थं पर्षदुपदि[६]ष्टचतुर्दशकृच्छ्रात्मकं प्रायश्चित्तममुकप्रत्याम्नायद्वारा करिष्य इति संकल्प्य,

"यानि कानि च पापानि ब्रह्महत्यासमानि च ।
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम्" ॥

 इति शिखाकक्षोपस्थवर्जं [७]केशश्मश्रुनखरोमाणि वापयित्वा,

"आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते" ॥

 इति वनस्पतिं प्रार्थ्य तस्मात्प्रादेशमात्रं काष्ठं गृहीत्वा,--

"मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ।
ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम्" ॥

 इति तेन काष्ठेन दन्तान्संशोध्य द्वादश गण्डूपान्कृत्वा वक्ष्यमाणोत्सर्जनरीत्या भस्मगोमयमृत्तिकास्नानानि विधाय पञ्चगव्यैः कुशोदकेन च तत्तन्मन्त्रैः स्नानं कृत्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैः शुद्धोदकेन स्नात्वा वक्ष्यमाणस्नानविधिना स्नानं कुर्यात् ।



  1. ग. दकप्रभृति य ।
  2. ख. स्य संततिप्रतिबन्धकीभूतस्य दो ।
  3. क. दिष्टं च ।
  4. क. र्वकं य ।
  5. ख. स्य संततिप्रतिबन्धकीभूतस्य दो ।
  6. क. दिष्टं च ।
  7. क. पुस्तकातिरिक्तपुस्तकेषु श्मश्रुशब्दो नास्ति । क. पुस्तकेऽपि स बहिर्लिखितो दृश्यते ।