पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२९

पुटमेतत् सुपुष्टितम्
[शिष्यधर्माः]
७२१
संस्काररत्नमाला

आस्तिकी दृढभक्तिश्च गुरौ मन्त्रे सदैवते ।
एवंविधो भवेच्छिष्य इतरो दुःखकृद्गुरोः" इति ॥

 चतुर्भिराद्यैरिति सुन्दरत्वादिभिः ।

 शिष्यपरीक्षाकालस्तत्रैव--

"एकद्वित्रिचतुष्पञ्चवर्षाण्यालोच्य योग्यताम् ।
भक्तियुक्तान्गुणांश्चापि क्रमाद्वर्णे ससंकरे ॥
पश्चादुक्तकमेणैव वदेद्विद्यामनन्यधीः" इति ।

 ससंकरेऽनुलोमजाति[१]सहिते वर्णे । ब्राह्मणादिवर्णेष्वित्यर्थः । एकवर्षं ब्राह्मणस्य योग्यतापरीक्षा क्षत्रियादिषु तु द्व्यादिवत्सरपरीक्षेत्यर्थः ।

अथ शिष्यधर्माः ।

 मुख्यतया स्वप्रकाशमात्मानमनुसंदध्यात्पूज्येषु पराङ्मुखो न भवेत् । शरीरमर्थमसूंश्च गुर्वर्थं धारयेत् । [२]तदुक्तं कुर्यात् । तद्वचसि युक्तायुक्तं न विचारयेत् । परधने स्पृहां न कुर्यात् । आत्मस्तुतिं परनिन्दां मर्मस्पृग्वचनं परिहासं धिक्कारमाकोशं त्रासोत्पादनं च न विदध्यात् । गुरुपरमगुर्वोः सममागमने प्रथमं परमगुरुं प्रणमेत् । तदग्रे गुर्वनुमत्या तन्नतिं ( तदनुमत्या गुरुनतिं ) क[३]लयेत् । एतानन्यांश्चान्त(ऽऽचा)राननुतिष्ठेत् । इति संक्षेपेण शिष्यधर्माः ।)

ज्ञानोनयने-

"निवार्य तु पितुर्मन्त्रं तथा मातामहस्य च ।
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥
प्रमादाद्यदि वाऽज्ञानात्पितुर्दीक्षां समाचरेत् ।
प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत्" इति ॥

 पितुरित्युपलक्षणं मातामहादीनामपि । प्रायश्चित्तं त्वयुतगायत्रीजपः सर्वत्र तथा दर्शनात् । सिद्धमन्त्रग्रहणे तु नायं निषेधः ।

 तथा च सिद्धयामले--

"यदि भाग्यवशेनैव सिद्धविद्यां लभेत्प्रिये ।
तदैव तां तु दीक्षेत त्यक्त्वा गुरुविचारणाम्" इति ॥

 सिद्धमन्त्रे न दुष्यतीति तत्रान्तरवचनाच्च ।

 पुण्यतीर्थ उपरागे सति पित्रादेरपीष्टमन्त्रो ग्राह्य एव ।



९१
 
  1. क. ग.तिस्वहि ।
  2. एतदादिप्रतिपदि द्वितीयायामित्यतः प्राक्तनग्रन्थो नास्ति ख. पुस्तके ।
  3. ग. कल्पयेत् ।