पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४१

पुटमेतत् सुपुष्टितम्
[पुरश्चरणकर्तृधर्माः]
७३३
संस्काररत्नमाला

 दुःसंवासो दुष्टैः सह संवासः ।

मन्त्रतन्त्रप्रकाशे--

"भूशय्या ब्रह्मचारित्वं मौ[१]नचर्याऽनसूयता ।
नित्यं त्रिषव[२]णं स्नानं क्षुद्रकर्मविवर्जनम् ॥
नित्यपूजा नित्यदानं देवतास्तुतिकीर्तनम् ।
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः [३]इति ।

एवमादौ[४](दीं)श्च नियमान्पुरश्चरणकृच्चरेत् । [इति । ]

 ब्रह्मचर्यमष्टविधमैथुननिवृत्तिः ।

तदुक्तं दक्षेण--

"स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्" इति ॥

 अभिलाषा(ष)पूर्वकं स्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिबाह्यचेष्टा । गुह्यभाषणं संभोगार्थं रहोमन्त्रणम् । संकल्पो मानसं कर्म । अध्यवसायः संभोगनिश्चयः । क्रियानिवृत्तिः क्रियानिष्पत्तिः ।

 त्रिषवणस्नानं तु शक्तपरम् ।

"स्नानं त्रिषवणं प्रोक्तमशक्तौ द्विः सकृच्चरेत्" इति वैशम्पायनवचनात् ।

 क्षुद्रकर्म तु--

"दम्भद्वेषौ तथोत्साद उच्चाटे भ्रममारणे ।
व्याधिश्चेति स्मृतं क्षुद्रम्" इति नारायणीयोक्तम् ।

नित्यं पूजा तत्पूर्वकमेव जपविधानात् । नैमित्तिकार्चनमयनादौ विशेषपूजा ।

 सा चोक्ता मन्त्रतन्त्रप्रकाशे--

"अष्टोत्तरसहस्रं तु कृत्वाऽन्तर्यागमादरात् ।
जपेत्प्रतिदिनं यत्तु नित्य एष जपः स्मृतः ॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
द्वादश्यां पौर्णमास्यां तु तेषु नैमित्तिको जपः ॥
नित्यात्त्रिगुणितः सोऽथ पूजा चैव हरेस्तथा" इति ।

 हरेरिति स्वेष्टदेवतोपलक्षणम् ।



  1. ख. ग. मौनं चार्याऽ ।
  2. ग. वणस्ना ।
  3. इतिशब्दोऽधिकः ।
  4. क. दौ च नि ।