पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४२

पुटमेतत् सुपुष्टितम्
७३४
भट्टगोपीनाथदीक्षितविरचिता-- [पुरश्चरणकर्तृधर्माः]

 आरब्धे पुरश्चरणे मध्य आशौचेऽपि न जपबाधस्तदुक्तं विष्णुना--

"व्रतयज्ञविवाहेषु श्राद्धे हो[१]मेऽर्चने जपे[२]
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम्" इति ॥

 प्रारम्भशब्दार्थस्तु विष्णुनोक्तः--

"प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया" इति ॥

मन्त्रमहोदधौ--

"आदौ देवं वशीकर्तुं पुरश्चरणमाचरेत् ।
तीर्थादौ निर्जने स्थाने भूमिग्रहणपूर्वकम् ॥
नवधा तां धरां कृत्वा पूर्वादिषु समालिखेत् ।
कोष्ठेषु सप्त वर्गांश्च ळक्षो मध्ये तथा स्वरान् ॥
क्षेत्रनामादिमो वर्णो यत्र कोष्ठे भवेत्ततः ॥
उपविश्य जपं कुर्यान्नान्यस्मिन्दुःखदे स्थले ।
आमध्याह्नं जपं कुयोदुपांशुं वाऽथ मानसम् ॥
हविष्यं निशि भुञ्जीत त्रिःस्नाप्य(य्य)चलनस्तथा ।
व्यग्रतालस्यनिष्ठीवक्रोधपादप्रसारणम् ॥
अन्यभाषान्त्यजेक्षे च जपकाले त्यजेत्सुधीः ।

 अन्यभाषा चान्त्यजश्चाण्डालस्तस्येक्षा चान्यभाषान्त्यजेक्षे । अन्येन सह भाषणमन्त्यजस्येक्षणं च वर्जयेदित्यर्थः ।

स्त्रीशूद्वभाषणं निन्दां ताम्बूलं शयनं दिवा ।
प्रतिग्रहं नृत्यगीते कौटिल्यं वर्जयेत्सदा ॥
भूशय्यां ब्रह्मचर्यं च त्रिकालं देवतार्चनम् ।
नैमित्तिकार्चनं देवस्तुतिं विश्वासमाश्रयेत् ॥
प्रत्यहं प्रत्यहं ताव[३]न्नैवं न्यूनाधिकं क्वचित्" इति ।

 नवकोष्ठकं चतुरश्रं कृत्वा तस्मिन्पूर्वदिशमारभ्य कादीन्सप्त वर्गानन्ते ळं क्षं च विलिखेत् । एवं मध्यकोष्ठे नव कोष्ठान्कृत्वा पूर्वादितः स्वरयुग्मं लिखेत् । क्षेत्रनामाद्यवर्णो यस्मिन्कोष्ठे भवेत्तत्र मुखं तदधस्तात्क्रमेण हस्तपार्श्वपादपुच्छादिकं ज्ञेयम् । तत्र मुख उपविश्य जपं कुर्यात् । नान्यस्मिन्हस्तपार्श्वादिषु ।



  1. ख. होमार्च ।
  2. ग. पे । आर ।
  3. क. वन्न तन्न्यूना ।