पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४४

पुटमेतत् सुपुष्टितम्
७३६
भट्टगोपीनाथदीक्षितविरचिता-- [आसनभूतशुद्ध्यादिविचारः]

 पुरश्चरप्पारम्भात्प्राङ्मन्त्रसिद्ध्यर्थमयुतत्रयं गायत्रीजपः कार्यः ।

 तदुक्तं मन्त्रकौमुद्याम्--

"सर्वमन्त्रप्रसिद्ध्यर्थं गायत्रीं त्र्ययुतं जपेत्" इति ।

 आसनविधेरावश्यकत्वमुक्तं सिद्धान्तशेखरादौ--

"आसनं प्रोक्ष्य संपूज्य जपं तत्र समाचरेत्" इति ।

 तत्र तस्मिन्नासने ।

आसनमाह नारदः--

"कुशाजिनाम्बरैर्युक्तं चतुरङ्गुलमूर्ध्वतः ।
चतुरश्रं द्विहस्तं च सुदृढं मृदु निर्मलम् ॥
आसनं कल्पयित्वा तु जपकर्म समारभेत्" इति ।

 अजिनान्याह वैशम्पायनः--

"सर्वसिद्ध्यै व्याघ्रचर्म ज्ञानसिद्ध्यै मृगाजिनम् ।
वस्त्रासनं रोगहरं वेत्रजं श्रीविवर्धनम् ॥
कौशेयं पौष्टिकं प्रोक्तं कम्बलं दुःखमोचनम्" इति ।

 वस्त्रमाविकं न तु कार्पासमयम् ।

"आसने कार्पासमये जपो भवति निष्फलः" ।

 इति ब्रह्मयामले [कार्पासमय]वस्त्रासने दोषश्रवणात् ।

 भूतशुद्धिरप्यवश्यं कर्तव्या ।

"भूतशुद्धिविहीनेन कृता पूजाऽभिचारवत् ।
विपरीतं फलं दद्यादभक्त्या पूजने यथा" ॥

 इति कुम्भसंभवेन तदकरणे दोषस्योक्तत्वात् ।

 प्राणप्रतिष्ठापनमप्युक्तं सारसंग्रहे--

"भूतशुद्धिं विधायेत्थं ततो वै स्थापयेदसून्" इति ।

 असून्प्राणान् ।

 अन्तर्मातृकाबहिर्मातृकान्यासावपि तत्रैव--

"कृत्वाऽन्तर्मातृकान्यासं बहिर्न्यासं ततश्चरेत्" इति ।

 बहिर्न्यासो बहिर्मातृकान्यासः ।

 न्यासस्याऽऽवश्यकत्वमुक्तं गौतमीये--

"ध्यानं जपार्च[१]नाहोमाः सिद्धमन्त्रकृता अपि ।
अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी" इति ॥



  1. क. र्चनहो ।