पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४५

पुटमेतत् सुपुष्टितम्
[मुद्रालक्षणानि]
७३७
संस्काररत्नमाला

 कपिलपञ्चरात्रे--

"ऋषिच्छन्दोदेवतानां विन्यासेन विना यदा ।
जपः संसाधितोऽप्येष तत्र तुच्छफलं भवेत्" इति ॥

अथ मुद्राः ।

 तत्र बहिर्न्यासमुद्रा दक्षिणामूर्तिसंहितायाम्--

"पुष्पैरनामया वाऽपि मनसा वा न्यसेदणून्" इति ॥

 अत्रैवं व्यवस्था । पुष्पैर्देवतामूर्तौ । अनामया स्वदेहे । मनसा मूलाधारादिचक्रेषु, तत्र करस्पर्शासंभवात् ।

 अनामया साङ्गुष्ठया--"अङ्गुष्ठानामिकाभ्यां तु न्यासः सर्वत्र संमतः" ।

 इति पद्यवाहिनीवचनात् ।

 अङ्गन्यासमुद्रास्तु तन्त्रराजादौ--

"प्रसारितमनङ्गुष्ठं तर्जन्यादिचतुष्टयम् ।
हृदि मूर्धनि चाङ्गुष्ठहीनो मुष्टिः शिखातले ॥

 चकाराद्धृदये देवमूर्धनि ।

स्कन्धमारभ्य नाभ्यन्ताद्दशाङ्गुल्यस्तु वर्मणि ।
तर्जन्यादित्रयं नेत्रत्रये नेत्रद्वये द्वयम् ॥
प्रसारिताभ्यां हस्ताभ्यां कृत्वा तालत्रयं सुधीः ।
तर्जन्यङ्गुष्ठयोरग्रे स्फालयन्बन्धयन्दिशः ॥
एषाऽस्त्रमुद्रा संप्रोक्ता विष्णोरेताः प्रकीर्तिताः" इति ।

 ऋष्यादिन्यासमुद्रा अपि तत्रैव--

"ऋषिच्छन्दोदेवतानां न्यासे त्वङ्गुलयः स्मृताः ।
चतस्रोऽङ्गुष्ठरहिता इति विद्वत्प्रभाषितम्" इति ॥

 अथाऽऽवाहन्यादिमुद्राः--

"हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणोः ।
अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा त्वावाहनो मता ॥
अधोमुखी त्वियं चेत्स्यात्स्थापनीति निगद्यते ।

 इयमावाहनी मुद्राऽधोमुखी चेत्स्थापनी मुद्रा भवेदित्यर्थः । एतेनैव ज्ञायते आवाहनी मुद्रोत्तानहस्तेति ।

उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात्संनिधापनी ।
अन्तः प्रवेशिताङ्गुष्ठा सैव संरोधिनी मता ॥