पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५६

पुटमेतत् सुपुष्टितम्
७४८
भट्टगोपीनाथदीक्षितविरचिता-- [जपविधिः]
( जपलक्षणम् )
 

 विश्वामित्रेण मानसस्य लक्षणमुक्तम्[१]--

"धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः" इति ॥

 त्रयाणां तारतम्यं च तेनैवोक्तम्--

"उत्तमं मानसं जप्यमुपांशु मध्यमं स्मृतम् ।
अधमं वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजः(जाः) ॥ .
वाचिकस्यैकमेकं स्यादुपांशु शतमुच्यते ।
सहस्रं मानसः प्रोक्तो मन्वत्रिभृगुनारदैः" इति ॥

 जपलक्षणमाह कुम्भसंभवः--

"गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्तनं हि यत् ।
अन्तरङ्गाक्षराणां च न्यासपूर्वो जपः स्मृतः" इति ॥

 अङ्गेति सुतीक्ष्णसंबोधनम् । अक्षराणामन्तरावर्तनं जप इति संबन्धः ।

वायवीयसंहितायाम्--

"एवमुक्तविधानेन विलम्बत्वरितं विना ।
उक्तसंख्यं जपं कुर्यात्पुरश्चरणसिद्धये ॥
देवतागुरुमन्त्राणामैक्यं संभावयन्धिया ।
जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥
यत्संख्यया समारब्धं तत्कर्तव्यं दिने दिने ।
यदि न्यूनाधिकं कुर्याद्व्रतभ्रष्टो भवेन्नरः" इति ॥

 अयं च जपो दिवैव कार्यः ।

"दिवा चैव जपं कुर्यात्पौरश्चरणिको विधिः" ।

 इति फेत्कारिणीतन्त्रे दिवापदाभिधानात् । 'जपं रात्रौ विवर्जयेत् ।' इति कुम्भसंभवेन रात्रिजपनिषेधाच्च ।

 देशकालाद्युपद्रवसंभावनायां नायं नियमः ।

"यत्संख्यया समारब्धं प्रत्यहं तावदेव हि ।
जपकर्म प्रकुर्वीतोपप्लवे नियमो नहि" इति तन्त्रान्तरवचनात् ॥

 तत्रापि चतुर्थभागपर्यन्तमेव जप्त[२](पित) व्यं न पञ्चमभा[३]गे ।

"राक्षसी नाम वेला सा गर्हिता सर्वकर्मसु" ॥



  1. ख. ग. म्--विया य । ङ. म्--विधाय ।
  2. ख. ग. ङ. प्तव्यम् । प ।
  3. ख. ग. ङ. भागस्य रा ।