पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६६

पुटमेतत् सुपुष्टितम्
७५८
भट्टगोपीनाथदीक्षितविरचिता-- [संतानप्रदगोपालमन्त्रन्यासादि]

फट् । अङ्गषट्कपक्षेऽसुरान्त[१]कचक्राय नेत्रत्रयाय वौषट् । सुदर्शनचक्रायास्त्राय फट् । इति प्रयोगः ।

अथ मूलमन्त्रन्यासः ।

"ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः"

 इत्येतेन मूलमन्त्रेण प्राणायामं कृत्वा, अस्य श्रीसुतप्रदगोपालकृष्णमन्त्रस्य नारद ऋषिः । अनुष्टुप्छन्दः । सुतप्रदो गोपालकृष्णो देवता । पूजाजपादौ विनियोगः । ॐक्लीं देवकीसुत गोविन्दाङ्गुष्ठाभ्यां नमः । ॐ वासुदेव जगत्पते तर्जनीभ्यां नमः । ॐ देहि मे तनयं कृष्ण मध्यमाभ्यां नमः । ॐ त्वामहं शरणं गतोऽनामिकाभ्यां नमः । ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः कनिष्ठिकाभ्यां नमः । ॐ[२] क्लीं देवकीसुत गोविन्द हृदयाय नमः । ॐ वासुदेव जगत्पते शिरसे स्वाहा । ॐ देहि मे तनयं कृष्ण शिखायै वषट् । ॐ त्वामहं शरणं गतः कवचाय हुं । ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः, अस्त्राय फट् ।

 अस्य श्रीसुतप्रदगोपालकृष्णमन्त्रस्य नारदाय ऋषये नमः शिरसि । अनुष्टु[३]प्छन्दसे नमो मुखे । सुतप्रदाय गोपालकृष्णाय देवतायै नमो हृदये । पूजाजपादौ विनियोगाय नमः सर्वाङ्गे । इति तत्तन्मुद्राभिर्विन्यस्य मूलेन त्रिर्व्यापकं कृत्वा,

"विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः ।
अदद(दा)त्तनयान्द्विजन्मने स्मरणीयो वसुदेवनन्दनः" इति ध्यायेत् ॥

 तन्त्रान्तरे तु प्रकारान्तरेण ध्यानमुक्तम्--

"स्तनं धयन्तं जननीमुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।
स्पृशन्तमन्यं स्तनमङ्गुलीभ्यां वन्दे यशोदाङ्कगतं मुकुन्दम्" इति ।

"शङ्खचक्रगदापद्मधरं श्यामं चतुर्भुजम् ।
देवकीतनयं कृष्णं पीतवाससमच्युतम् ॥
समर्पयन्तं विप्राय नष्टानानीय बालकान् ।
मयूरबर्हिशिरसं ध्याये सौदामिनीनिभम्" इत्यप्यन्यत्र ॥



  1. क. च. न्तच ।
  2. ख. ङ. च. ॐ दे ।
  3. च ष्टुभे छ ।