पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६८

पुटमेतत् सुपुष्टितम्
७६०
भट्टगोपीनाथदीक्षितविरचिता-- [संतानप्रदगोपालमन्त्रन्यासादि]

पत्रेषु पूर्वादिक्रमेण । विमलायै नमः । उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्व्यै नमः । सत्यायै नमः । ईशानायै नमः ।

 देवस्य पुरतः-अनुग्रहायै नमः । इति पीठदेवता आवाह्य मध्ये वह्निमण्डले श्रीगोपालकृष्णमावाहयेत् । तद्यथा--ध्यानोक्तलक्षणोपेतां यथाशक्ति सुवर्णादिधातुनिर्मितां गोपालकृष्णप्रतिमां विधाय मूर्तेः संततदुग्धोदकधाराभ्यां यथाशाखमग्न्युत्तारणं कृत्वा पूर्वोक्तरीत्या प्राणप्रतिष्ठां विधाय प्रतिमाया दक्षिणपार्श्वे स्थित्वा देवस्य पुरतो नानोपहारबलिं संस्थाप्य तैजसे पात्रे गव्यं घृतं निक्षिप्य सुवर्णशलाकाभ्यां तच्चक्षुर्देव हितमित्यनेन चित्रं देवानामित्यनेन वा देवस्य नेत्रे उन्मील्य "ॐ अञ्जन्ति त्वामध्वरे० उपस्थे" इत्यनेन द्वाभ्यां मध्यमाङ्गुलिभ्यामुभे सहैव मधुनाऽभ्यज्य पञ्चामृतैः शुद्धोदकेन च स्नापयित्वा स्वाभिमुखीं प्रतिमां वह्निमण्डले संस्थाप्याधोमुखं हृत्पद्मं वायुबीजेनोन्मुखं ज्ञानार्केण विकसितं च भावयित्वा हंसः सोऽहमिति हृत्पद्मस्थं श्रीकृष्णमात्मानं वहन्नासारन्ध्रमार्गेण स्वाञ्जलिस्थपुष्पे समागतं विभाव्य मूलमन्त्रमुच्चार्य तत्पुष्पं प्रतिमायां विनिक्षिप्य, आवाहनी स्थापनी संनिधापनी संनिरोधिनी संमुखीकरणी संकलीकरण्यवगुण्ठनी परमीकरण्यमृतीकरणीति नव मुद्राः प्रदर्शयेत् । ततो नर्य प्रजामिति प्रतिष्ठाप्य नमस्कुर्यात् ।

 अथाऽऽवरणदेवताः--आग्नेयादिकोणेषु प्रादक्षिण्येन--आचक्राय नम आचक्रमावाहयामि । विचक्राय नमो विचक्रमावाहयामि । सुचक्राय नमः सुचक्रमावाहयामि । त्रैलोक्यरक्षणचक्राय नमः, त्रैलोक्यरक्षणचक्रमावाहयामि ।

 ततः पूर्वादिचतुर्दिक्षु प्रादक्षिण्येन--असुरान्तकचक्राय नमोऽसुरान्तकचक्रमावाहयामि । षट्पक्षे--असुरान्तकचक्रानन्तरं सुदर्शनचक्राय नमः सुदर्शनचक्रमिति सर्वदिक्ष्विति विशेषः ।

 ततः पत्रेषु पूर्वादिप्रादक्षिण्येन--रुक्मिण्यै नमो रुक्मिणीमावाहयामि । सत्यभामायै नमः सत्यभामामावाहयामि । नाग्नजित्यै नमो नाग्नजितीमावाहयामि । अर्कजायै नमोऽर्कजामावाहयामि । मित्रविन्दायै नमो मित्रविन्दामावाहयामि । लक्ष्मणायै नमो लक्ष्मणामावाहयामि । जाम्बवत्यै नमो जाम्बवतीमावाहयामि । सुशीलायै नमः सुशीलामावाहयामि ।

 ततो दलाग्रेषु पूर्वादिक्रमेण प्रदक्षिणम्--वसुदेवाय नमो वसुदेवमावाहयामि । देवक्यै नमो देवकीमावाहयामि । नन्दगोपतये नमो नन्दगोपतिमावाहयामि । यशोदायै नमो यशोदामावाहयामि । बलभद्राय नमो बलभद्र