पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७

पुटमेतत् सुपुष्टितम्
[अग्निमुखविधिः]
७३
संस्काररत्नमाला ।
(आघारहोमादि)
 

अग्रान्मध्याच्च मध्ये तु मूलान्मध्याच्च मध्यतः ।
स्रुवः प्रधार्यो विद्वद्भिः सर्वकामार्थसिद्धये" इति ।

 अयमर्थः--दण्डस्य पञ्च भागान्कृत्वा द्वितीयभागे चतुर्थभागे वा स्रुवधारणं कार्यमिति ।

 प्रयोगार्णवे--

"कठिनद्रव्यहोमे तु मुष्टिना धारणं स्रुचः ।
द्रवद्द्रव्यस्य होमे तु उत्तानाङ्गुलिभिः स्मृतम्" इति ॥

 स्रुवस्याप्युत्तानाङ्गुलिभिरेव धारणम् । एतच्च स्रुक्स्रुवधारणं सौम्यतीर्थेन कार्यम् ।

 "निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्याद्दैवेन दैविकं पित्र्येण पैतृकं कमण्डलुस्पर्शनं नवान्नप्राशनं स्रुवग्रहणं दैविकं सौम्येनाऽऽग्नेयेन प्रतिग्रहं कुर्यात्"

 इति बौधायनोक्तेः । स्रुवग्रहणं स्रुगुपलक्षणम् । अत्र दैविकमिति विशेषणात्पित्र्यं स्रुवधारणं पितृतीर्थेनैव ।

 सौम्याग्नेयतीर्थलक्षणं बौधायनोक्तम्--

"अङ्गुलिमूले सौम्यं करमध्य आग्नेयम्" इति ।

 दर्व्यामप्येवं तस्याः स्रुवस्थानीयत्वात् ।

 तत आधारहोमादि । तदुक्तं गृह्ये--

 "अथ दर्व्या जुहोत्युत्तरं परिधिसंधिमन्ववहृत्य दर्वीं प्रजापतये मनवे स्वाहेति मनसा ध्यायन्दक्षिणाप्राञ्चमृजुं दीर्घ संततं दक्षिणं परिधिसंधिमन्ववहृत्येन्द्राय स्वाहेति प्राञ्चमुदञ्चमृजुमाघारावाघार्याऽऽज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे तावन्तरेणतरा जुहोति युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेम स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी, इति । तां त्वा घृतस्य धारयाऽग्नौ स राधनीं यजे स्वाहा । स राधन्यै देव्यै स्वाहा प्रसाधन्यै देव्यै स्वाहा" इति ।

 अथेध्माधानानन्तरं होमान्वक्ष्यमाणान्दर्व्या जुहोति । अथशब्द इध्माभ्याधानाघारयोः संबन्धार्थः । तेन यत्र यत्राऽऽघारौ तत्रैवेध्माभ्याधानं नान्यत्र । तेनाऽऽपूर्विक इध्माभ्याधानं नेति सिद्धं भवति । एवमिध्माभ्यञ्जनमपि दर्व्यैव