पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८

पुटमेतत् सुपुष्टितम्
७४
[अग्निमुखविधिः]
भट्टगोपीनाथदीक्षितविरचिता--
(आघारहोमादि)
 

भवतीति च । उत्तरं परिधिसंधिमनु उत्तरं परिधिसंधिमनु लक्षयित्वा तेन यथाऽवहृत्य प्रवेश्य दर्वीं प्रजापतय इत्यनेन मन्त्रेण मनसा ध्यायन्ननुच्चारयन्वाचा दक्षिणाप्रागपवर्गमकुटिलं संततमविच्छिन्नं जुहोत्याघारयतीत्यर्थः । दर्वीग्रहणं स्थाल्या सहान्ववहृत्य पश्चादुपादाय होमप्रतिषेधार्थम् । तेन पूर्वमेवोपादाय प्रवेश्याऽऽघारयितव्यम् । पूर्ववद्दक्षिणं परिधिसंधिमन्ववहृत्य दर्वीमिन्द्राय स्वाहेत्यनेनोत्तराप्रागपवर्गमकुटिलं दीर्घं संततं जुहोत्याघारयति । मनसा ध्यायन्निति निवर्तते । तस्मान्मनसा प्रजापतये जुह्वतीतिश्रुत्या प्राजापत्याघार एव तस्योक्तत्वात् । अतो वाचैवाभिघारयति । आघारावाघार्येतिवचनमनन्तरोक्तयोर्होमयोराघारसंज्ञार्थम् । तेन ज्योतिष्मत्यग्नौ होमः सर्वेषामिध्मकाष्ठानां संस्पर्शनं च सिद्धं भवति । दक्षिणाप्राञ्चमितिवचनं तिर्यक्त्वनिरासार्थम् । ऋजुमितिवचनं जिह्मत्वनिरासार्थम् । दीर्घमितिवचनं शास्त्रान्तरोक्तस्य द्वेष्यस्य ह्रस्वमितिकल्पनिरासार्थम् । संततमिति द्वेष्यस्य न्यञ्चं विच्छिनत्तीत्येतस्य कल्पस्य निरासार्थम् । उत्तराघार ऋजुग्रहणं दीर्घसांतत्ययोरनावश्यकत्वद्योतनार्थम् । आघारे धारायां चाऽऽदिसंयोग इत्यापस्तम्बोक्तविशेषस्वीकारे तु मन्त्रारम्भसमकालमाघारयोरारम्भः । आज्यभागाविति संज्ञा संव्यवहारार्था । आज्यभागान्तं कृत्वेत्यत्राग्नये स्वाहेत्यनेन मन्त्रेणाग्नेरुत्तरार्धस्य पूर्वार्थे सोमाय स्वाहेत्यनेन दक्षिणार्धस्य पूर्वार्धे जुहोतीत्युभयत्र शेषः । तावन्तरेणेतरा जुहोति, तावाज्यभागावन्तरेण तद्धोमदेशयोर्मध्य इतरा आहुतीर्जुहोति । तावन्तरेण जुहोतीत्येतावदुच्यमाने युक्तो वहेत्यादानीमेव देशसंबन्धः प्रसज्येत तन्मा भूत्किंतु सर्वासामेव भवतीत्येवमर्थमितरा इति वचनम् । यातिरश्चीत्येतस्मिन्मन्त्रे स राधनीमित्येव पाठः । यजेः सकर्मकत्वादित्येके । स राधनी यज इत्येव पाठो विभक्तिव्यत्ययादित्यन्ये । निरनुनासिकः पाठोऽपपाठ ए[१]वेति मातृदत्तः । छान्दसः पाठ इति तु युक्तम् । भूर्भुवः सुवरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्चेति । भूर्भुवः सुवरित्येताभिर्व्याहृतिभिर्जुहोति । एकैकश एकैकया व्यस्ताभिरित्यर्थः । यथा भूः स्वाहा । भुवः स्वाहा । सुवः स्वाहेति । भूर्भुवः सुवरिति वचनं व्याहृतिबहुत्वादिष्टपरिग्रहार्थम् । भूर्भुवः सुवरिति सिद्धे व्याहृतिभिरिति वचनमेतासामेवान्यत्र व्याहृतिग्रहणे संप्रत्ययार्थम् । तेन व्याहृतिभिरन्वादधाति व्याहृतिभी राकामहमित्येवमादिषु


  1. क. ख. एव । भू ।