पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८१

पुटमेतत् सुपुष्टितम्
[पुनःसंधानविचारः]
७७३
संस्काररत्नमाला

स्यात्तेजस्व्येवास्य ब्रह्मवर्चसी पुत्रो जायते" इति श्रुतिरप्याशीराशंसनं पुत्रप्रतिनिधिं कृत्वा न कर्तव्यमित्यत्र साधिकेति द्रष्टव्यम् ।

इति पुत्रप्रतिग्रहविधिः ।

अथ पुनःसंधानम् ।

 तत्र गृह्यसूत्रम्--

"द्वादशाहं विच्छिन्नः पुनराधेयः प्रतिसं-
ख्याय वा सर्वान्होमाञ्जुहुयात्" इति ।

 द्वादशाहं विच्छिन्न इत्यत्र होमश्चेदिति शेषः । तथा च द्वादशाहं होमविच्छेदे पुनरग्निराधेय इत्यर्थः । अथवा तावत्संख्यान्सायंप्रातर्होमान्प्रतिसंख्याय गणयित्वा समस्यविधिना जुहुयादित्यर्थः । नात्र पुनरग्निराधेयः । अयं च पक्षः संकटे ।

 अन्यान्यपि निमित्तानि गृह्य उक्तानि--

"यदि पार्वणो विच्छिद्येत तस्मि[१]न्पाथिकृतेन याजयेद्यदि द्वौ वैश्वानर[२]पाथिकृतौ यदि बहून्पुनराधेयो यदि नाशो विनाशो वाऽन्यैरग्निभिरग्नौ सं[३]सृष्टे वा पुनराधेयः" इति ।

 पार्वणः पर्वसु भवः स्थालीपाकः । तस्मिन्निति निमित्तसप्तमी, तन्निमित्तमित्यर्थः । नाश इत्यत्राग्नेरिति शेषः ।

"भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा ।
तस्य स्यात्पुनराधेयम्"

 इत्यादिवचनप्रोक्तनिमित्तानि विशब्देन ग्राह्याणीति सूच्यते । योऽग्निसत्त्वेपि तस्य नाशः स विनाशशब्देनोच्यते । वस्तुतस्तु--अधिकमेवेदं प्रयोगवैजयन्त्यामधृतत्वात् ।

 शतद्वय्याम्--

"विहारकाले यदि कार्यदोषात्पत्नी तु सीमानमतीत्य गच्छेत् ।
निःसंशयोऽग्निः खलु नाशमेति गृहस्य सीमाऽत्र विवक्षिता स्यात्" इति ॥

 मण्डनः--

"अग्निहोत्रेण रहितः पन्थानं शतयोजनम् ।
आहिताग्निः प्रयायाच्चेदग्निहोत्रं विनश्यति" इति ॥

 अग्निहोत्रेण सहित इत्यपि केषुचित्पुस्तकेषु पाठो दृश्यते ।



  1. ख. ग. स्मिन्पथि ।
  2. ग. रपथि ।
  3. ख. ग. संस्पृष्टे ।