पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९४

पुटमेतत् सुपुष्टितम्
७८६
भट्टगोपीनाथदीक्षितविरचिता-- [पुनःसंधानम्]

माधवीये स्मृत्यन्तरे--

"प्राजापत्यं चरन्विप्रो यद्यशक्तः कथंचन ।
अहानि पञ्च विप्राग्र्यान्भोजयेत्सम्यगीप्सितान्" इति ॥

 अत्र कपिञ्जलाधिकरणन्यायेन पञ्चस्वप्यहःसु त्रयस्त्रयो विप्रा भोज्या इति केचित् । पञ्चसंख्याया देहलीदीपन्यायेनोभयत्रान्वयः । तेन पञ्च विप्रा भोजनीया इत्यन्ये ।

स्मृत्यर्थसारे--

"रुद्रैकादशिनी कृ[१]च्छ्रो द्वादशांशो निवर्तनात् ।
योजनं सिन्धु[२]गातीरे घृतहोमशतद्वयम्" इति ॥

निवर्तनलक्षणं तु--"दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम्" इति ।

 निवर्तनद्वादशांशभूमिदानेन कृच्छ्र इत्यर्थः ।

 माधवीये--

" प्राजापत्यक्रियाशक्तौ धेनुं दद्यात्पयस्विनीम् ।
धेनोरभावे दातव्यं[३] तुल्यं मूल्यं न संशयः" इति ॥

मदनरत्ने ब्राह्मे--"गवामभावे निष्कः स्यात्तदर्धं पादमेव[४] वा" इति ।

चतुर्विंशतिमते--

"प्राजापत्ये तु गामेकामतिकृच्छ्रे तथा द्वयम् ।
पराके तप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु ताः स्मृताः ॥
अष्टौ चान्द्रायणे[५] ज्ञेयास्तिस्रो वा शक्त्यपेक्षया" इति ॥

स्मृत्यर्थसारे तु-- "षडुपवासाः प्राजापत्यप्रत्याम्नायः । एकविप्रभोजनमुपवासस्येति च"

 इति । पक्षिवधे नक्तं रूप्यमाषकं वा दद्यादिति हारीतोक्ते रूप्यमाषकदानं नक्तस्येति शूलपाणिः ।

शूलपाणिरेव--"चान्द्रायणं तु कुर्वाणाः कुर्युः कृच्छ्रचतुष्टयम्" इति ।

  तथा--

" चान्द्रायणपराकाभ्यां निष्कृतिं यो न शक्नुयात् ।
स करोत्यात्मशुद्ध्यर्थं प्राजापत्यस्य पञ्चकम्" इति ॥

 कृच्छ्रातिकृच्छ्रे धेनुचतुष्टयमिति भवदेवः । अत्र गुरुलघुपक्षाणां शक्ताशक्तपरत्वेन व्यवस्था । इति प्रत्याम्नायाः ।

अथ पुनःसंधानम् ।

तत्र नक्षत्राणि--

"कृत्तिका रोहिणी मृगशीर्ष पुनर्वसू फल्गुन्यौ हस्तश्चित्रा विशाखे
अनूराधाः श्रोणा प्रोष्ठपदाश्चोत्तरेऽग्न्याधेयनक्षत्राणि" इति ।

 कृत्तिकाबहुवचनान्तेनैकमेव नक्षत्रम् । अनूराधाः, प्रोष्ठपदाः, पुनर्वसू, पुंलिङ्गाः । फल्गुन्यौ विशाखे स्त्रीलिङ्गे । स्पष्टान्यन्यानि । "अमावास्यायां



  1. च. कृच्छ्रे द्वा ।
  2. क. न्धुमाती ।
  3. क. व्यं मूल्यं तुल्यं न ।
  4. क. व च" इ ।
  5. क. णे देया ।