पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९७

पुटमेतत् सुपुष्टितम्
[पुनःसंधानप्रयोगः]
७८९
संस्काररत्नमाला

लीपाका[१]नां च पर्याप्तमिदं व्रीह्याद्यन्यतमं होमद्रव्यमाज्यं च तन्निष्क्रयद्रव्यं वाऽमुकेभ्यो ब्राह्मणेभ्यः संप्रदद इति संकल्प्याग्निविच्छेदकालगणनया दद्यात् । आग्रयणकरणपक्षे दर्शपूर्णमासस्थालीपाका[२]नामित्यनन्तरमाग्रयणस्थालीपाकस्य चेत्यूहः । एतच्च प्रायश्चित्तं विच्छेदोत्तरं कालविलम्बे यद्य[३]कृताग्निद्वयसंस[४]र्गो यजमानस्तदाऽग्निद्वयविच्छेदस्यापि तत्तत्कालगणनया प्रायश्चित्तं कार्यम् । नास्तिक्याद्विच्छेदश्चे[५]द्धोमद्रव्यदानं स्थालीपाकद्रव्यदानं च । अनारब्धस्थालीपाकस्य यजमानस्य विभ्रष्टस्थालीपाकमात्रं न लुप्तस्थालीपाकद्रव्यदानम् । अनारब्धत्वात्तेषाम् । संकल्पवाक्ये दर्शपूर्णमासाग्रयणस्थालीपाकोल्लेखोऽपि न ।

 ततः सपत्नीकः पुनराचमनप्राणायामदेशकालसंकीर्तनानि कृत्वाऽमुकंनिमित्तेन विच्छिन्नस्य गृह्याग्नेः पुनःसंधानं करिष्य इति संकल्प्य गणेशं संपूज्य कृतभस्मोत्सर्गोपलेपनमग्न्यायतनं परिश्रित्य फलाद्यन्यतमेन ताम्र[६]शकलयुक्तेन पूर्ववदुल्लिख्यावोक्षणोत्सेचनोदकनिधानानि कृत्वाऽभ्यादिनोद्धत्यावोक्ष्य सिकता न्युप्योदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्करा इति भौमान्, हिरण्यरजतशकलपुष्करपर्णाश्वत्थोदुम्बरपलाशशमीविकङ्कताशनिहता इति वानस्पत्यान्संभारांस्तूष्णीमग्न्यायतने प्रक्षिपेत् । सर्वेषां भौमानामलाभे सिकताग्रहणं, वानस्पत्यानामलाभे त्वश्वत्थग्रहणम् । एवं संभारांस्तूष्णीं प्रक्षिप्य स्वयोनित उत्पन्नमग्निमाहृत्य भूर्भुवः सुवरोमित्यग्न्यायतने प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा विच्छिन्नगृह्याग्निपुनःसंधानहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे--मिन्दवन्तमग्निमाज्याहुत्या यक्ष्ये । अग्निमिन्द्रं बृहस्पतिमश्विनौ चाऽऽज्याहुत्या यक्ष्ये । तन्तुमन्तमग्निं तिसृभिराज्याहुतिभिर्यक्ष्ये । अग्निमभ्यावर्तिनमा० । अग्निमङ्गिरसमा० । अग्निं द्वाभ्यामा० । अग्निमा० । वायुमा० । सूर्यमा० । प्रजापतिमा० । अयासमग्निमा० । मनस्वन्तमग्निमा० । प्रजापतिमा० । सप्तवन्तमग्निमा० । वाचस्पतिं ब्रह्माणमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादिव्याहृतिहोमान्तं कृत्वा वैशेषिकप्रधानहोमं कुर्यात् ।

 यन्म आत्मनः पुनरग्निरिति द्वयोर्मन्त्रयोः सोम ऋषिः । प्रथमस्य मिन्दवान



  1. ग. ङ. च. कादीनां ।
  2. क. कान ।
  3. ड. च. द्यग्निकृ ।
  4. क. ख. सर्गको य ।
  5. क. ख. श्चेद्धौम्यद्र ।
  6. ग. ड. च. म्रकलशयु ।