पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८१२

पुटमेतत् सुपुष्टितम्
८०४
भट्टगोपीनाथदीक्षितविरचिता-- [गृहस्थस्य गृहकरणप्रकरणम्]

 मुख्यकालातिक्रमेऽपीदं प्रायश्चित्तमिति द्वितीयः पक्षः ।

 आशौचादिमत्त्वेन भार्याया रजस्वलात्वेन वाऽप्यन्तरितस्थालीपाको द्वितीयाचतुर्थीपञ्चम्यष्टमीनवमीचतुर्दशीषु न कर्तव्यः ।

 उक्तं चैतत्प्रयोगपारिजात आश्वलायनेन--

"नातीतेष्टिश्चतुर्दश्यां चतुर्थ्यां मध्यपञ्चके ।
नवम्यां च द्वितीयायां कार्या आहुतयस्तथा" इति ॥

 मध्यपञ्चके, मध्ये पक्षमध्येऽष्टम्यामित्यर्थः । पञ्चके पञ्चमदिवसे पञ्चम्यामित्यर्थः । न च मध्यं च तत्पञ्चकं च मध्यपञ्चकं तत्र, तथा च षष्ठ्यादिदशम्यन्तानां निषेध इति वाच्यम् । तथा सति नवम्युपादानवैयर्थ्यापत्तेरिति केचित् ।

 नवम्युपादानस्य दोषातिशयप्रतिपादनार्थत्वेन सार्थक्यसंभवान्न[१] षष्ठीसप्तम्यष्टमीदशम्यन्यतमतिथिष्वप्यसंभवे क्रियायां न दोषः । नवम्यां तु सर्वथै[२]वाक्रियेत्यन्ये । आहुतयः स्थालीपाकाहुतय इत्यर्थः ।

सायणीये प्रजापतिः--

"दर्शश्च पूर्णमासश्च लुप्तोऽथ द्वयमेव वा ।
एकस्य पादकृच्छ्रं स्याद्द्वयोरर्धं प्रकीर्तितम्" इति ॥

इत्यन्तरितस्थालीपाकप्रयोगः ।

अथ गृहस्थस्य गृहकरणमर्थप्राप्तं तदुच्यते ।

 तत्रेदं गृह्यसूत्रम्--

"शालां कारयिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां त्रिषु चोत्तरेषु" इत्यादि ।

 अत्र मासनियमो नारदेनोक्तः--

"सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः ।
मासाः स्यु[३]र्गृहनिर्माणे पुत्रारोग्यधनप्रदाः" इति । सौम्यो मार्गशीर्षः ।

 वारादिकमप्युक्तं तत्रैव--

"आदित्यभौमवर्जं तु वाराः सर्वे शुभावहाः ।
चन्द्रादित्यबलं लब्ध्वा लग्ने शुभनिरीक्षिते ॥
स्तम्भोच्छ्रायादि कर्तव्यमन्यत्तु परिवर्जयेत्" इति ।



  1. अयं न दोष इत्यत्रत्यो वा नशब्दोऽधिकः । अयं नशब्दो नाऽऽसीत्कपुस्तके स च शोद्ध्रा पश्चात्केनचिल्लिखितोऽस्ति ।
  2. क. थैव न क्रि ।
  3. क. स्युर्गेहं ।