पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८१५

पुटमेतत् सुपुष्टितम्
[वास्तुप्रवेशप्रयोगः]
८०९
संस्काररत्नमाला

नात् । अन्ये तु ग्रामान्तरादागमन एवेच्छन्ति । तदपि न । उक्तं गृहप्रपदनमित्याश्वलायनसूत्रविरोधात्, तस्मादुभयार्थतैव युक्तेति ज्ञेयम् । सज्जीकृतगृहप्रवेशेऽपीदं विधानम् । एकस्याः शालाया द्वयोर्वा सज्जीकरणे तु--उक्तविधानेन तमेव देशं शमयित्वा प्रवेशः कर्तव्यः ।

 ततो गणपतिपूजनं पुण्याहवाचनं च कार्यम् । अन्यदपि कुलाचारप्राप्तं चेतदपि कर्तव्यम् ।

इति संस्काररत्नमालायां वास्तुकरणवास्तुशमनवास्तुप्रवेशप्रयोगः ।

इत्योकोपाह्व श्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां सप्तदशं प्रकरणम् ॥ १७ ॥

समाप्तोऽयं गृह्यसूत्रप्रथमप्रश्नः ॥ १ ॥

। समाप्तिमगमदिदमत्र संस्काररत्नमालायाः पूर्वार्धम् ।