पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८५

पुटमेतत् सुपुष्टितम्
[अन्वाधानम्]
८१
संस्काररत्नमाला ।
( जायाभ्यातानहोमयोः )
 

ग्निस्त्रिष्टुप्, अग्निध्याने विनियोगः-- "ॐ चत्वारि शृङ्गा० आविवेश । सप्तहस्तश्चतुःशृङ्गः०[१]० । तोमरं व्यजनं वामैर्घृतपात्रं च धारयन् । आत्माभिमुखमासीन एवंरूपो हुताशनः" इति ध्यायेत् । यत्राग्निमुपसमाधायेति सूत्रकृद्वदति तत्रोद्धननादिना संस्कृते देशेऽग्निमाहृत्य स्थापयित्वा होमः कार्यः । यत्र न वदति तत्र स्वस्थानेऽवस्थिते परिस्तरणादिविधिनैव कार्यः । अग्निज्वलनमुपसमाधानं सिद्धानुवादमेके मन्यन्ते । तेषामौपासने कर्तव्यानां समिन्धनादीतरत्रोद्धननादीति द्रष्टव्यम् । स्थलान्तरे केनचिन्निमित्तेन नीतस्य प्रत्यक्षस्याग्नेः संस्थापनेऽवरोपविधावग्न्यनुगमनप्रायश्चित्तहोमविधौ चोद्धननादि कर्तव्यमेव ।

अथाऽऽचारप्राप्तमन्वाधानम् ।

 तद्यथा--स्थूलसमित्त्रयमादाय "श्रद्ध एहि सत्येन त्वाऽऽह्वयामि" ।

 इति त्रिरुक्त्वा, "याः पुरस्तात्प्र० श्रद्धां यज्ञमारभे । आकूत्यै त्वा० निविष्टम्" इति पठित्वा हृदयालम्भमुदकस्पर्शं प्राणायामं च विधायामुकहोमे या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि जातवेदसमग्निमिध्मेन यक्ष्ये,

 आधारहोमे--प्रजापतिं मनुमिन्द्रं चैकैकयाऽऽज्याहुत्या यक्ष्ये, आज्यभागहोमे, अग्निं सोमं चैकैकयाऽऽज्याहुत्या यक्ष्ये, सामान्यप्रधानहोमे-- जातवेदसमग्निं स राधनीं स राधनीं देवीं प्रसाधनीं देवीमग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा यथोक्ताः प्रधानदेवता द्वितीयया विभक्त्योल्लिख्य तृतीयया विभक्त्या यथोक्तद्रव्यमुल्लिख्य यक्ष्य इति वदेत् । अङ्गहोमे वरुणं[२] द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये, अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये, अयासमग्निं प्रजापतिं[३] चैकैकयाऽऽज्याहुत्या यक्ष्ये ।

 [४]योपहोमे--चित्तं चित्तिमाकूतमाकूतिं विज्ञातं विज्ञानं मनः शक्वरीर्दर्शं पूर्णमासं बृहद्रथंतरं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये ।

 अभ्याता[५]नोपहोमे--अग्निं भूतानामधिपतिमिन्द्रं ज्येष्ठानामधिपतिं यमं पृथिव्या अधिपतिं वायुमन्तरिक्षस्याधिपतिं सूर्यं दिवोऽधिपतिं चन्द्रमसं नक्षत्राणामधिपतिं बृहस्पतिं ब्रह्मणोऽधिपतिं मित्रं सत्यानामधिपतिं वरुणमपामधिपतिं समुद्रं स्रोत्यानामधिपतिमन्नं साम्राज्यानामधिपतिं सोममोषधीनामधिपतिं सवितारं


११
 
  1. ग. ङ्गः इ ।
  2. ख. णं वरुणं अग्निं वरुणं चाग्निं वरुणं चायास ।
  3. ड. क्ष्ये । ज । ख. तिं चाऽऽज्येन य ।
  4. क. जयहो ।
  5. क. तानहो ।