पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९०

पुटमेतत् सुपुष्टितम्
८६
[परिषेकाद्युत्तराधारहोमान्तो विधिः]
भट्टगोपीनाथदीक्षितविरचिता--

 ततोऽग्नेः पश्चाद्भूमिं प्रोक्ष्योदगग्रं बर्हिःसंनहनशुल्बं तत्राऽऽस्तीर्य तदुपरि प्रागामुदगपवर्गं बर्हिरास्तीर्य तत्र स्रुवदर्व्याज्यस्थालीः क्रमेणोदक्संस्थं निदधाति । चरुहोमश्वेदत्र शृतं चरुमभिघार्योदगुद्वास्याग्नेः पश्चादाज्यस्थाल्या उत्तरतो बर्हिष्यासादयति । ततोऽग्न्यायतनस्य समन्तादङ्गुलत्रयपरिमितं स्थलं त्यक्त्वा परिषिञ्चति । अदितेऽनुमन्यस्वेति चतुर्णां मन्त्राणां वामदेव ऋषिरदितिरनुमतिः सरस्वती देवः सवितेतिक्रमेण चतुर्णां देवताः, यजूंषि, परिषेके विनियोगः--" "अदितेऽनुमन्यस्व" इति दक्षिणतः प्राचीनं परिषिञ्चति । "अनुमतेऽनुमन्यस्व" इति पश्चादुदीचीनम् । "सरस्वतेऽनुमन्यस्व" इत्युत्तरतः प्राचीनम् । "देव सवितः प्रसुव" इत्यैशानीमारभ्य सर्वतः प्रदक्षिणं परिषिञ्चति ।

 ततो दक्षिणेन पाणिना दार्व्याऽऽज्यस्थाल्याज्यमादाय भूमिष्ठमिध्मं मूलमध्याग्रप्रदेशेष्वङ्क्त्वा दर्वीं स्वस्थाने निधाय दक्षिणहस्तेनेध्ममादाय मूलमध्यभागयोर्मध्ये तं धृत्वाऽयं त इध्म इत्यस्य वामदेवो जातवेदा अग्निः स्वराट् त्रिष्टुप्, इध्माभ्याधाने विनियोगः-- "अयं त इध्म आत्मा० मेधय स्वाहा" इति सव्यपाण्यन्वारब्धेन दक्षिणेन हस्तेन प्रदीप्ताग्नौ प्रागग्रमभ्यादधाति । जातवेदसेऽग्नय इदं० । सर्वेषु त्यागेष्वस्यै देवताया इदं पुरोवर्ति द्रव्यमुत्सृजे न ममेत्यर्थमनुसंदध्यात् । अन्यकर्तृकेऽपि होमादौ सर्वे त्यागा यजमानेनैव कार्याः ।

 ततो दर्व्याऽऽज्यं गृहीत्वोत्तरं परिधिसंधिमनुलक्ष्य तेन दर्वीं प्रवेश्य-- प्रजापतये मनवे स्वाहेत्यस्य वामदेवः प्रजापतिर्मनुर्यजुः, पूर्वाघारहोमे विनियोगः--"प्रजापतये मनवे स्वाहा" इति प्रजापतिं मनसा ध्यायन्मनसैव मन्त्रमुच्चारयन्वायव्यकोणमारभ्याऽऽग्नेयकोणपर्यन्तं संततमृजुं दीर्घं जुहोति । प्रजापतये मनव इदं० । पुनर्दर्व्याऽऽज्यं गृहीत्वा दक्षिणं परिधिसंधिमनुलक्ष्य तेन दर्वीं प्रवेश्येन्द्राय स्वाहेत्यस्य वामदेवो विश्वे देवा[१] इन्द्रो वा यजुः, उत्तराघारहोमे विवियोगः--" इन्द्राय स्वाहा" इति मन्त्रं पठन्नैर्ऋतकोणमारभ्यैशानकोणपर्यन्तं संततमृर्जुं दीर्घमासीन एव जुहोति । इन्द्रायेदं० । उभयत्र सर्वेषामिध्मकाष्ठानामाघाराज्य[२]संस्पर्शः । यदि शीतवशेन कठिनं [३]चेदाज्यं तदाऽऽघारसांतत्यार्थं प्रकृतकर्मसंबन्ध्यग्निसमीपस्थापनेन विलीनं कुर्यात् । प्रायौगिकास्तु ताम्रादिनिर्मितेन तदग्निसंतप्तेन दण्डेन विलीनं


  1. ग. घ. ड. वा वेन्द्रो य ।
  2. क. ज्यस्य स ।
  3. चेदित्यनर्थकं निश्चयार्थकं वा ।