त्यादीन्ये भूता इत्यन्ता]न्सर्वान्मन्त्रान्मनसा जपेत् । एतस्य(च्च) सर्वथा जलस्याप्यभावे ज्ञेयम् । )
इति संस्काररत्नमालायां वैश्वदेवविधिः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे पञ्चमं प्रकरणम् ॥ ५ ॥
अथ षष्ठं प्रकरणम् ।
अथ पिण्डपितृयज्ञः ।
तत्रेदं सूत्रम्--
- "सोऽयमेवं विहित एवानाहिताग्नेस्तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्तेऽतिप्रणीत आहुतीर्जुहोति यस्मिञ्जुहोति तमुपतिष्ठतेऽत्र गार्हपत्यप्रवादः परिलुप्यते" इति ।
सोऽयं पिण्डपितृयज्ञ एवंप्रकारेणोक्त एवानाहिताग्नेरपि भवति । तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्ते । होमस्त्वग्निप्रणीतेऽपि वा न तत्र पाकः । तत्समवेतनिर्वापपात्रासादनादीनि तान्यौपासने नियम्यन्ते । अतिप्रणीत आहुतीर्जुहोति । एकोल्मुके प्रणीते तत्रैव होमः । तथा च होमसमय एव प्रणयनम् । यस्मिञ्जुहोति तमुपतिष्ठते । अतिप्रणीतमेवोपतिष्ठत इत्य[१]र्थः । तत्र भाष्यकृता व्याख्यातं यस्मिञ्जुहोतीति गुरुनिर्देशाद्विकल्प इति । गुरुनिर्देशस्यास्ति फलम् । दक्षिणाग्नौ पिण्डपितृयज्ञे कृतेऽपि गार्हपत्यस्योपस्थानवदौपासनस्य मा भूदित्येवमर्थं यस्मिन्नित्याद्युक्तम् । अत्र गार्हपत्यप्रवादः परिलुप्यते गार्हपत्यपदं लुप्यते नोह एतस्यापि पिण्डपितृयज्ञस्य प्रकृतित्वात् । नापि लक्षणया व्याख्या । प्रकृते गार्हपत्यमुपतिष्ठत इति सति विधौ ह्यै[२]न्द्र्या गार्हपत्यमुपतिष्ठत इति द्वितीयाश्रुतिबलेन व्याख्या । प्रकृते यस्मिञ्जुहोति तमुपतिष्ठत इत्येव विधौ द्वाराभावाल्लोप एव गार्हपत्यपदस्येति युक्तमिति व्याख्यातं वैजयन्तीकृता । एतत्कालस्तत्रैव सू[३]त्रं--
- "अमावास्यायामपराह्णे पिण्डपितृयज्ञेन यजतेऽधिवृक्षसूर्ये वा यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति दृश्यमाने तूपोष्य श्वोभूते यजते" इति ।