पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७७

पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९८५
संस्काररत्नमाला ।

वसपात्रासादनात्प्राग्वा ) । आगामिदर्शस्याप्यतिक्रमणे पूर्वपिण्डपितृयज्ञलोपप्रायश्चित्तमेवाग्रिमे दर्शे कार्यं न तु तदनुष्ठानम् । जीवत्पितृकस्य तु होमान्तमेव कर्म न पिण्डदानाद्युत्तरम् । पिण्डदानाभावात्मकृदाच्छिन्नाभावः । अतिप्रणीते होमपक्षेतिप्र[१]णीतमेलने प्रोषितस्य पिण्डपितृयज्ञयाजमानमन्त्रजपे विकल्पः ।

तथा च मण्डनः--'पितृयज्ञे याजमानं जपन्त्येके न चापरे' इति ।

 आहिताग्निकर्तृके पिण्डपितृयज्ञे तु मेक्षणाधानोत्तरमतिप्रणयनम् । दक्षिणाग्नौ श्रपणहोमौ । यदन्तरिक्षमितिमन्त्रेण गार्हपत्योपस्थानम्[२] । अस्मिन्मन्त्रे न गार्हपत्यपदलोप इति विशेषः । अन्यत्समानम् ।

इति संस्काररत्नमालायां पिण्डपितृयज्ञप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणशेदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालाया उत्तरार्धे
षष्ठं प्रकरणम् ॥ ६ ॥

अथ सप्तमं प्रकरणम् ।

 अथामावास्यायां कर्तव्यं मासिश्राद्धमासिकश्राद्धात्मकं श्राद्धद्वयमुच्यते । तत्र[३] धर्मसूत्रोक्तं मासिश्राद्धं गृह्योक्तं मासि[४]कम् । अनयोर्भेदस्तु धर्मसूत्रे संज्ञान्तरकरणात्पुनःकालोपादानात्पृथग्धर्मापादानाच्च । न च पितरो देवतेत्यादीनां धर्माणामाकाङ्क्षितत्वान्मासिकार्थत्वमेवास्त्विति वाच्यम् । गृह्योक्तैरेव धर्मैराकाङ्क्षायाः शान्तत्वेन पितरो देवतेत्यादीनां तदर्थत्वाभावात् । न च 'तत्र द्रव्याणि--तिलमाषा व्रीहियवा आपो मूलं फलानि च' इत्येतस्य द्रव्यविशेषविधेः 'प्रयतः प्रसन्नमनाः सृष्टो भोजयेत्' इति कर्तृधर्मविधेर्ब्राह्म[५]णलक्षणविधेः पूर्वेद्युर्निवेदनादिधर्माणां च गृह्योक्ते मासिकश्राद्धे[६]ऽप्यवश्यापेक्षितत्वेन तदर्थत्वसंभवात्पितरो देवता ब्राह्मणस्त्वाहवनीयार्थ इत्यनयोर्मृतपित्रुद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धमितिश्राद्धलक्षणप्रतिपादनार्थत्वेनोपयोगात्कथं कर्मभेद इति वाच्यम् । तथा सत्युपस्थितिलाघवात्तत्रैव वक्तव्ये दू[७]


  1. क ख. ङ. प्रणयनमे ।
  2. क. म् । तत्र मन्त्रे ।
  3. क. ख. ङ. गृ ।
  4. क. ख. ङ. सिकं धर्मसूत्रोक्ते मासिश्राद्वम् ।
  5. ख. ह्मणोत्ताली
  6. ख. ङ. द्धैऽद ।
  7. क. ख. दूराम्नानस्य ।