श्रौताग्निमान्स्मार्ताग्निमांश्च । तदितरो निरग्निरित्यपि तत्रैवोक्तम् । अतश्च जीवत्पितृकस्य निरग्नेस्तीर्थश्राद्धादौ नाधिकार इति सिद्धम् ।
इति संस्काररत्नमालायां श्राद्धोपोद्धातः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे सप्तमं प्रकरणम् ॥ ७ ॥
अथाष्टमं प्रकरणम् ।
अथ दर्शश्राद्धापरपर्यायमासिश्राद्धप्रयोगः[१] ।
क[२]र्ता तद्दिवसप्रक्षालितश्वेतवस्त्रधृक्प्र(त्प्र)क्षालितपाणिपादः कृतनित्यक्रियो दर्भपाणिः पूर्वाह्ण एव सपत्नीकपितृवर्गस्य सपत्नीकमातामहवर्गस्य च तिलतर्पणं[३] नद्यादौ विधायासंभवे गृह एव तिलरहितं विधायाऽऽचम्य श्राद्धप्रदेशसमीपे हयश्चेत्तं दूरीकृत्य रजस्वलापतितकुक्कुटश्वमार्जारादीनां मध्यतो गमनं दृष्टिपातश्च यथा न भवति तथा परिवृते गोमयोपलिप्ते देश आसन उपविश्य स[४]र्वदृग्दोषनिवर्हणार्थं समीपे छागं तदभावे कृष्णाजिनं बद्ध्वा तस्याप्यभावे तूष्णीं तिलान्प्रागादिषु[५] चतसृषु दिक्षु[६] प्रदक्षिणं विकीर्याऽऽचम्य[७],
"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । |
"निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया । |
इति स[८]र्वदोषनिवर्हणार्थं सकुशान्यवान्प्रदक्षिणं श्राद्धस्थले विकीर्य,
"तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् । |
इति तिलानप्रदक्षिणं प्राचीनावीती प्रदक्षिणं यज्ञोपवीती वा वि[९]कीर्य,