पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५४

पुटमेतत् सुपुष्टितम्
८६४
[प्रवासादागतस्य विधिः]
भट्टगोपीनाथदीक्षितविरचिता--

व्यावहारिकं नाम कार्यम् । नाक्षत्राणि तु पूर्वमेव प्रदर्शितानि । नात्र नाम । नाममन्त्रेणैव पूजादि । वैदिकमन्त्रवर्जं सर्वं पुंवत् । इति स्त्रियाः ।

 द्विविधमप्येतत्पितुरसंनिधौ पितामहादिः कुलवृद्धः कुर्यात् । 'पिता नाम कुर्यादन्यो वा कुलवृद्धः'  इति शङ्खस्मरणात् ।

 यदाऽऽलस्याज्जातकर्म न कृतं तदा नामकर्मदिने जातकर्मकालात्ययनिमित्तं लौकिकाग्नौ व्याहृतिहोमवारुणीहोमादिभिः सहितेन रहितेन वाऽऽघारवत्तन्त्रेणाऽऽपूर्विकतन्त्रेण वा त्वं नः स त्वं न इत्याद्याः सप्ताऽऽहुतीः समस्तव्याहृतिभिरेकाहुतिं च हुत्वा गोदानाद्यन्यतमप्रत्याम्नायेनार्धकृच्छ्रं प्रायश्चित्तं चरित्वाऽनन्तरं जातकर्म नामकरणं च क्रमेण कुर्यात् । यदा तु जननकाले कुयोगस्तदा तद्दोषोपशमनाय विहितां शान्तिं कृत्वोभयं क्रमेण कुर्यात् । व्याहृतिहोमार्धकृच्छ्रे अप्यत्र कार्ये इति केचित् । तत्तद्दोषोपशमनशान्तयस्तु शान्तिरत्नमालायां वक्ष्यन्ते । गणपतिपूजनपुण्याहादिवाचनमातृकापूजननान्दीश्राद्धानां तन्त्रमेव ।

इति संस्काररत्नमालायां नामकरणविधिः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे द्वितीयं प्रकरणम् ॥ २ ॥

अथ तृतीयं प्रकरणम्

अथ प्रवासादागतस्य विधिः ।

 तत्रेदं गृह्यम्-- 'प्रवासादेत्याऽऽगतं वा पुत्रमभिमृशति' इत्यादि । प्रवासादेत्य पुत्रमभिमृशति । पुत्रं वा प्रवासादागतमभिमृशतीत्यर्थः ।

 तस्य प्रयोगः--पिता प्रवासादेत्याऽऽगतोपस्थानं कृत्वा गृहा मा बिभीतेत्यादिविधिं विधाय 'ॐ सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा' इति पुत्रमभिमृशति । 'ॐ पशूनां त्वा हुंकारेणाभिजिघ्राम्यसावायुषे वर्चसे हुम्' इति मूर्ध्न्यभिजिघ्रति । असावित्यत्र तस्य संबुद्ध्या शर्मान्तं नाम ग्राह्यम् ।

 ततोऽग्निरायुष्मानिति पञ्चानां सानुषङ्गाणां मन्त्राणां विश्वे देवा अग्न्यायुष्मदादयो यजूंषि । हस्तग्रहणे विनियोगः । 'ॐ अग्निरायुष्मान्स वनस्पतिभिरायुष्मान्तेन० | सोम आयुष्मान्स० । यज्ञ आयुष्मान्स० । ब्रह्माऽऽयुष्मत्तद्ब्राह्मणै० । देवा