पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २६ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- ननु श्रवणादिविधिशेषत्वे कथं वेदान्तानां सिद्धार्थत्वमिति चेत् । उच्यते-न वयं विधिशेषत्वेनैकवाक्यत्वं ब्रूमः किं तु विध्यपेक्षितशेषित्वेन । तथा च शेषिणः फलस्य ब्रह्मणो बोधकं महावाक्यं सिद्धार्थपरमेव । ननु तहिं स्वर्गादिफलसमर्पकमप्यवान्तर - वाक्यं सिद्धार्थमेव भवेत् । भवतु का हानिः । नन्वेवं सत्यसाधारण्येन व्यपदेशः कथ- मिति चेत् । उच्यते-यंत्र सिद्धार्थप्रतिपादकवाक्यजनिता प्रमा न कङ्गिं तत्र तज्ज्ञानमेव सुखसाक्षात्काररूपत्वेन पुरुषार्थस्तद्वाक्यं सिद्धार्थ कर्माङ्गज्ञानाजनकत्वात् । सिद्धमर्थमेव प्रतिपादयदेव परमपुरुषार्थे पर्यवस्यतीति प्रधानभूतं सुतरां सिद्धार्थम् । श्रवणादिविधायकं तु स्वोद्देश्यप्रतिपादकेनैकवाक्यतां गतं, तस्य च कर्मविधानं ब्राह्म. णमितिलक्षणलक्षितत्वेऽपि न दोषः । तेषु कुत्रचिन्मन्त्रत्वप्रसिद्धावपि तदितरमन्त्राणां मन्त्रत्वं सिद्धं, तस्यापि मन्त्रत्व प्रकारान्तरेणोपपादनीयमित्यलमतिविस्तरेण । 'ज्योतिष्टोमेन वर्गकामो यनेत' इति वाक्ये यद्यप्युद्देश्यवर्गपदार्थप्राधान्ये सिद्धा- र्थता तथाऽपि सिद्धार्थप्रतिपादनमात्रेणापुरुषार्थपरत्वाजायमानमपि ज्ञानं कर्मानुष्ठानस्यो- त्तरभाविनोऽङ्गमेवातोऽनुष्ठेयज्ञानजननप्राधान्यान्न तसिद्धार्थम् । अत एवार्थवादेषु सिद्धार्थत्वमाशय पुरुषार्थापर्यवसानेनाप्रामाण्यं स्यादिति पुरुषार्थपर्यवसायिविधि- पाक्यैकवाक्यतया प्रामाण्यमाह-

तच्छेषोऽर्थवादः।

तस्य विधायकस्य शेषो विधिनैकवाक्यत्वं गच्छंस्तद्वारा विधिविषयभावनाप्रवर्तकना- ह्मणवाक्यशेष इति भावः । तदुक्तं-विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः । विधीनां विधेयमावनानां यदाऽध्ययनविधिविधायकवाक्यानि पुरुषं प्रवर्तयेयुरिति प्रेरयेत्तदा विधायकवाक्यगतशब्दभावनापेक्षितविधयार्थभावनागतप्राशस्त्यलक्षणकरणे- तिकर्तव्यतासमर्पकत्वेन विधायकवाक्यैरर्थवादा एकवाक्यत्वं गच्छन्तीत्यर्थः । अर्थवाद इत्येकवचनमेकाकारतयैवैकवाक्यत्वं सर्वेषामप्यर्थवादानामस्तीति ज्ञापनार्थम् । द्वारं तु तेषां शब्दादेवावगम्यते । ये तु न स्वार्थविवक्षयाऽर्थ वदन्ति किंतु परप्रशंसाथै तेऽर्थ- वादा इति प्रसिद्धम्। ननु विधेयस्तुतिद्वारेण प्रशंसार्थानां भवत्वेकवाक्यता येऽन्यनिन्दा कुर्वन्ति ते कथमेकवा- क्यतां विधिना गच्छन्ति 'ब्रह्महत्यायै धेषा वर्ण प्रतिमुच्याऽऽस्ते' इत्येवमादयः। न च तेषां निषेधेन सहकवाक्यतेति वाच्यम् । 'कर्मविधानं ब्राह्मणानि' इति निषेधस्य पृथग. स्वीकारात् । अत एवाऽऽचार्यः सर्वत्र कर्मशब्दं प्रयुते । निषेधैष्वपि निवृत्तिभावना. पर्यायस्य कर्मण एव विषयत्वेनाभिप्रेतत्वात् । अन्यथा विधिलक्षणो धर्मोऽर्थात्प्रतिषे. धलक्षणो ह्यधर्मः स्यात् । तथा च धर्माधर्मयोः प्रमाण-ब्राह्मणमिति सूत्रयेत् । नच १क, ग. छ. "कर्तव्यति।