पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

!

३४ सत्यापाढविरचितं श्रौतसूत्र- :- [१प्रथमप्रमे- नियामक न भवेत् । तदा कयाऽपि वृत्त्या वाक्याघवगतप्तर्वकर्मार्थताऽपि स्यात् । तस्माद्वाक्यादिभिर्यदर्थत्वमवगम्यते तन्मध्ये प्रधानमहं वाऽभिधयैव प्रतिपादयन्तीति वाक्यादिप्रमाणानां दुर्बलानां संकोचो भवतीति सप्रयोजनं सूत्रम् । तथा घेतरे बाधके- तरप्रमाणविनियुक्ता इति पर्यवसानम् । ननु यत्र वाक्यादिप्रमाण सामान्येन विधायक नास्ति तेषां लिङ्गेनापि नानाकर्मा- थता स्यात्तत्राऽऽह-

शेषस्य विनिधानम् ।

शेषोलिङ्गव्यतिरिक्तप्रमाणान्तरेण न कर्मविशेषार्थत्वेन नियमिताः । लिङ्ग च तदाऽनेककर्मानुष्ठानगामि कर्माणि मन्त्रान्त एव रुद्धानि । तत्र न समुच्चयः प्रमाणा- न्तरसहकृतलिङ्गविनियुक्तैः केवललिङ्गविनियुक्तानां समानवत्वाभावात् । अत एव न विकल्पोऽपि । तेषां कर्मविशेषे मन्त्र साकाङ्क्ष विशेषेण निधानं विनियोगः । उच्यत इति शेषः । योग्यताप्रदर्शनार्थ प्रतिज्ञामात्रसिद्धम् । सामानां शेषाणां समवेतार्थप्रकाशकत्वामावाल्लिङ्गेन विनियोगामावमाश- याऽऽह-

पारिप्लवार्था दाशतय्यः ।

दश मण्डलानि यस्या भवेदसंहितायाः सा दशतयो तत्रत्या भचो दाशतय्यः । ताभिर्देवतागुणशंसनरूपे पारिप्लवे शस्त्रे शंसितव्ये तत्पूरणार्थी देवतागुणशंसनलिकन हौत्रसमाख्यया पारिप्लवसमारूयया च तदर्थाः परितः प्लवमाना अन्यत्र विनियोगा. भावात् । क्रमरहितचा शंसनं हि पारिप्लने क्रियतेऽतस्तदपि मन्त्रान्तरसापेक्षमेव । भत उभयाकाङ्क्षया यज्ञार्थी इत्यर्थः । इदानी सानां विकृतिगामित्वं पूर्वेणाविनियुक्तानामाह-

उत्तरयोः पवमानयोः स्तोमाभ्यासे सामानि ।

स्तोमानां सामाधारभूतर्समुदायानामभ्यासे विवृद्धौ सत्यां न विनियुक्तानां साम्नाम- भ्यासः कार्यः, किंतु यान्यन्यत्र न विनियुक्तानि तानि साकाङ्क्षाणि तैरेव विवृद्धिः कार्या । यथा विवृद्धस्तोमकेषु ऋतुषु श्रूयते--' एकशिनातिरात्रेण प्रजाकामं याजयें- त्' इति । तत्र त्रिवृत्स्तोमानि पञ्चदशस्तोमानि सप्तदशस्तोमान्यकविंशस्तोमानि चैकविंशस्तोमान्येव ! कार्याणि । तत्र सर्वस्तोत्रेष्वविनियुक्तसाम्नां पूरणायागमे प्राप्ते पवमानयोरित्युक्तम् । अयमभिप्राय:- पवमानव्यतिरिक्तेषु स्तात्रेषु नापूर्वसामागमः । १ क. ग, च, छ; यतीति। २ छ."माणावि । ३ क. ग. च. कर्मणि ।