पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। 3 सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- फलवत्संनिधावफलं तदङ्गमिति च न्यायात् । जातिबीयादिः। द्रव्यं स्यादि। गुणो वैकङ्कतत्वादिः । क्रिया धात्वर्थरूपाः । तेषां मध्ये : जात्यादीनां संस्कारकर्मणां च स्पष्टदृष्टोपकारकत्वेन श्रुत्यादिप्रमाणैश्च स्पष्टमङ्गत्वम् । प्रयाजादियागानामपि परस्परमभ्यासाझेदः प्रधानयागेम्यश्च ते भिन्ना एवाफलाः सन्तो हि फलवतामङ्गम् दविहोमाश्च शब्दान्तरादेव भिन्नास्तेऽपीतर इत्यनेनैवाङ्गतां गताः पुनर्वहणं होमा इति यत्तेन चतुरवत्तं जुहोतीत्यादिना प्राप्तास्तेषां यागादविवेकमाशङ्ग्य निरस्यति वषट्का. रसाध्यत्वान्न तैमिन्नं वानमस्तीति यागान्तर्गत्याशङ्का शब्दान्तरात्सा निरस्ता । यागेम्यो यजतिचोदितेभ्यो होमा जुहोतिचोदिता भिन्नाः प्रक्षेपमात्ररूपा इति तेषां भेदस्तूप- पादित एव न विस्मरणीयो यागद्रव्यप्रतिपत्तिरूपत्वेन । एवं च दर्शपूर्णमासयोः फलप्रकरणयागस्वरूपमेदाङ्गानि निर्णीतानि । अथ प्रयोगो वक्तव्यः । तत्र प्रयोगाअभूतदर्शपूर्णमासाख्यकालस्य दिनद्वयात्म- कस्य विमागेन व्यवस्थिताङ्गतानिर्णयाय पौर्णमास्यमावास्याशब्दो व्याख्येयौ । तत्रेद- मिदानी विचार्यते-पौर्णमास्यां पौर्णमास्या यजतेऽमावास्यायाममावस्यया यजत इति कर्मणामेकैकतिथ्यात्मकः कालोऽङ्गत्वेन विहितः पुर्वेदरानं गृह्णात्युत्तरेधुर्यनतीति, 'पुर्वेद्युरिधमाबाहः करोति । यज्ञमेवाऽऽरम्य गृहीत्वोपवसति' इति, 'यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वोभूते यजते' इतिश्रुतिभिहकालताऽवगम्यते । तत्र विरोधात्सं. शयः । तत्रोमयदिनात्मकत्वमेकैकस्याङ्गभूतस्य कालस्य न संमवतीति निश्चितमन्यत- रव्हर्गौणं पूर्वमपरं वा. ग्राह्यमिति संदेहे स्थिते सूत्रेण पौर्णमासीविषये तावत्पूर्व- पक्षमाह-

पूर्वां पौर्णमासीमुपवसेत् ।

अन्वाधानादेरङ्गत्वात्तदेव पौर्णमासीशब्देन सामीप्येन लक्षितायां चतुर्दश्यामेव कार्य न तु प्रधान तथालक्षितायां प्रतिपदि कार्यमङ्गप्रधानविरोधे प्रधान बलीय इति न्यायादिति पूर्वपक्षसूत्रार्थः । कालाध्वनोरत्यन्तसंयोग इति द्वितीयाविभक्तिरिति नाऽऽशङ्कनीयम् । उपान्वध्यावास इत्युपपदविभक्तिरेव । नात्राशनाभाव उप- वासः, प्रातराशे दंपती अनीत इति विरोधात् । तस्मादयं 'देवता उपव- सन्तु मे, अहं ग्राम्यानुपवसामि' इति संकल्पो दृश्यते । तथोपवासशब्देन जाया. पत्योरेकवारं भोजनमेवति धर्मे वक्ष्यमाणत्वात्प्रातराशे जायापती सपिमिश्रमभीत इति, तदैवायैकवारं भोक्ष्यामीति संकल्पः कार्य इति । अथवा व्रतेन नियमग्रहणात्तदः क्षया 'उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः - 4