पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रवे- मयस्वं श्रुतिसिद्धं वक्तुं तवतारूपामेराहवनीयादिदेवताशरीरत्रयभेदेन देवता- शरीरप्रयमयत्वं दर्शयति-एतद्वै देवानामायतनमित्यादिना । मयि सनः संनिधद्ध्व- मिति देवतारूपेणामिना देवतानां संनिधानं कारितमतोऽग्निः सर्वा देवता इति तत्र तत्र श्रूयते । अग्निः सर्वदेवतामयस्तामा सर्वदांऽशेन तत्राऽऽश्रितत्वात् । तदिदमत्र विवि- च्योच्यते-एतद्वै देवानामायतनमित्यादिना । अधिकरणत्रयगता देवता हि साजात्येन धर्मेण शरीरत्रयेण त्रेधा तिष्ठन्ति देवा मनुष्याः पितर इति । ते ह्यत्र वोमूते पूज्यन्ते । ततस्तेषां पूर्वेयः परिग्रहः कर्तव्यः । कथं हि त्रैराश्येन दर्शपूर्णमासयोः पूजेति चेत् । उच्यते-होता हि वदति-'ईडामहै देवार ईडेन्यान्नमस्याम नमस्यान्यनाम यज्ञियान् ' इति । तस्य ब्रामणं ' मनुष्या वा ईडेन्याः' इत्यादि । ये देवा भागधेयेनाग्नित्रयेऽपी. ज्यास्ते तु बहमिहविर्माभिराहवनीय इज्यैः सहैवाऽऽहवनीय एव तिष्ठन्ति हविग्रहणायक तु तत्र तत्र गच्छन्ति । गार्हपत्ये तु मनुष्या ईडेन्या ब्रह्मणः प्रथमसृष्टिः प्रजापशुरूपा मनुष्यशब्दवाच्यास्तिष्ठन्ति । अग्निहपतिस्तेषामुत्पादयितेति श्रूयते- 'एतस्माद्वै मिथु. मात्प्रजापतिमिथुनेन प्रानायत' इति । दक्षिणाग्निस्तु पिण्डपितृयज्ञपियेष्टयादौ कव्यवा- हन इति तस्मिन्नपि पितरस्तिष्ठन्ति | आजानसिद्धा ब्रह्ममष्टिः। एवं स्थिताः खस्वपूना गृह्णन्तीति तेषामवस्थानार्थ तन्मयानामग्नीनामेव ग्रहणमित्याह - अग्निं गृह्णाति स्व एवाऽऽयतने देवताः परिगृह्णाति ताः श्वोभूते यजते ' इति । तत्तद्राशिमयस्याग्ने. स्नेधा विभक्तस्यैव ग्रहणेन देवतापरिग्रहं कुर्यादिति वाक्यार्थः । तस्मादत्र विहव्यामि- या॑हतिभिर्वा प्रत्यक्षाशीनामन्वाधान द्वारसाकाङ्क्षस दृष्टप्रयोजनार्थमाच्छिद्रिकैः कृतदे. पतामयाग्निग्रहणस्याङ्गं स्यात् । तेन च प्रत्यक्षामिग्रणे सति तत्र देवतामयानां देवतारू- पाणामाययादीनां ग्रहणं युक्तम्। 'श्वो यक्ष्यमाणे देवता वसन्ति' इति श्रुतेः प्रत्यक्षानीनां देवतारूपाग्निनिवासाधिकरणता दृश्यते । तस्मादङ्गत्वेनाऽऽश्रयभूतानां प्रत्यक्षाणामपि ग्रहणम् । न ह्यगृहीत आश्रये तत्राग्निदेवतानां ग्रह्ण युक्तम् । तस्मादङ्गं प्रत्यक्षाग्नि. ग्रहणं प्रथम, तेषु देवतारूपाग्निग्रहणं द्वितीयम् । एवमिष्टं सूत्रकारस्य देवतारूपानेः परिग्रहणेन देवतापरिग्रहो मवति न तु प्रत्यक्षाग्निधारणायन विहव्यान्वाधानेनेति । अत्र लिङ्गम् -पदयं दीक्षणीयया प्रधानार्थमारादुपकारिण्या यनमानसंस्कारिण्याऽप्यर्थवा- दबलेन याज्यालिङ्गेन च सोमदेवतापरिग्रहोऽपि कार्य इति सूचयति । कथं, यतो वक्ष्यति सवनीये पशौ सवनीयेषु पुरोडाशेषु च नाग्न्यन्वाधानं विद्यत इति । तत्तु दीक्षणी- यया सोमदेवतापरिग्रहे सति तत्कालपातिनीनां सवनीयपशुसवायपुरोडाशदेवतानां प्रसन परिग्रहे सत्येवोपपद्यते । तथा हि-आग्नावैष्णवमेकादशकपालं निर्वपेत् ।

इत्यपक्रम्याऽऽह 'अग्निरवमो देवतानां विष्णुः परमो यदानावैष्णवमेकादशकपालं

निर्वपति देवता एवोमयतः परिगृह्य यजमानोऽवरुन्धे । इति । देवताया अग्नेविष्णोश्च परिग्रहेण प्रधानदेवतापरिग्रह एवोक्तो दीक्षणीयायाः प्रधानार्थत्वात्प्रधानदेवतापरिग्रह .