पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 सत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने--

ध्रुवा अस्मिन्निति यजमानस्य गृहानभि पर्यावर्तते ।

बहीरित्यन्तः । पर्यावर्तते प्रदक्षिणमावर्तते यनमानालयमभिलक्षीकृत्य गृहान्गन्तु मित्यर्थः ।

यजमानस्य पशून्पाहित्यग्निष्ठेऽग्न्यगारे वा पुरस्तात्प्रतीचीꣳ शाखामुपगूहति पश्चात्प्राचीमित्येकेषाम् ।

अग्निसमीपस्थमनिष्ठम् । अनः शकटं, तत्राग्निशालायां वा पुरस्तादागेऽन्यतरस्य प्रत्यगग्रां शाखां पश्चाद्भागे वा पूर्वानामुपगूढां न पतति तथा संवृतां कुर्यात् । एवमिथे स्वेति मन्त्राणां तृतीयस्यामिति ब्राह्मणश्य पाठेनाऽऽच्छिद्रिकैः शाखान्तरमन्त्रैर्वाह्मणै- श्वोपह्य शाखाहरणविधियाख्यातो गृहतीत्यन्तः । अत्रामावास्यायां वेदिकरणं वक्तव्य- मपि शाखान्तरीयत्वेन विकल्प एवेति दर्शयितुं नोक्तम् । तथा वेदकरणानन्तरमपि प्राप्तं न दर्शयति कित्वाप्पलेपनिनयनान्त एव व्याख्यास्यते विकसोऽपि तत्रैवेति । इति वसापाकरणविधिः ॥ अथ पाठानुक्रमेण पर्वद्वयसाधारण मन्त्राह्मणानुपारेण बहिराहरणविधि व्याचष्टे-

देवस्य त्वेत्यश्वपर्शुमसिदं वाऽऽदत्ते ।

उत्तरेण गार्हपत्यं निहितयोरन्यतरादानमापस्तम्बमतात् । आदद इत्यन्तः । अश्वस्य पार्श्वे स्थितमस्थि वजिनामकमश्वपशुः स्त्रीलिङ्गोऽश्वपर्धा बहिरच्छैतीति दृश्यते । साऽय सोपस्कृता छेदनयोग्या कार्या । तस्थामस्मच्छाखीयो विधिभत्रस्य । असिदो वक्रायुध. विशेषः । तत्र शाखान्तरीयोऽयमेव मन्त्रः । छेत्तुं गच्छतः शस्त्रादानं दृष्टः संस्कारः ।

यज्ञस्य घोषदसीति गार्हपत्यमुपतिष्ठते ।

उप समीपं गत्वा गार्हपत्यस्योपस्थानं मन्त्रकरणमुपश्लोकनेन प्रकाशनं कुर्यादिति गार्हपत्यस्यासमवेतत्वेनैव प्रकाश्यत्वादारादृपकारकं कर्मेदम् । प्रकृते समवेतत्वेऽपि वा सूर्यायसमवेतार्थप्रकाशकत्वेनोपस्थानस्य विधेरूप्यभिया सर्वत्रोपस्थान विशिष्टो जप एव । अथवा यथासंभवं वैरूप्येण प्रधानगुणकर्मणोरेका संज्ञोऽऽचारादिबद्धात्वर्थोऽ. व्यको जुहोतिवद्भविष्यति । सर्वथा दृष्टार्थ न भवति । यानमानेऽयमर्थः स्पष्टो: भविष्यति ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

अरातय इत्यन्तः । निरतिशयेन तपति तापयतीत्यर्थः । आपस्तम्मो नाश्वपशुमि. त्याह दाहप्रसङ्गात् । १क, ग. च. उ. इ. 'रणम । २ क, ग, च... । श"।। द. शाऽऽधारा,