दुष्टसभ्येनापि निर्णीतं कार्यं न परावर्तयेत् । किन्तु धार्ष्ट्यान्नष्टं दापयेदित्यर्थः ।
"न सा सभा यत्र न सन्ति वृद्धाः ।
[१]न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति ।
न तत्सत्यं यच्छलेनानुविद्धम्" ॥
राजा विगतमत्सरः सर्वभूतेषु समो वैवस्वतं व्रतं बिभ्रत् व्यवहारान् पश्येत् । वैवस्वतव्रतं तु यथाह यमः--
"प्रियद्वेष्यान् यथा प्राप्ते काले धर्मो नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम्"॥
इति स्मरणात् ।
नृपतिः धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन समीक्षमाणो व्यवहारगतिं नयेत् । धर्मशास्त्राणि-- वेदाः साङ्गाः स्मृतयो मीमांसा च पुराणं न्यायशास्त्राणि । प्रमाणान्तरदृष्टार्थविषया स्मृतिरित्यर्थः । एवं च उभयविधशास्त्रानुसरणं तयोर्मिथो विरोधाभाव एव । यदि विरोधस्स्यात्तदा याज्ञवल्कीयमुपतिष्ठते तथाच याज्ञवल्क्यः--
"स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः" ॥
इति । व्यवहाराख्यनिर्णयविशेषत इत्यर्थः । श्रुतिमूलस्मृत्योर्विरोधे वृद्धव्यवहारावगतसावकाशत्वादितर्कबलेन यथा व्यवस्था तयोर्जायते तथा ग्रहीतव्यमित्यर्थः । केवलं शास्त्रमाश्रित्यायं निर्णयो न कर्तव्यः, किन्तु तर्कानुगृहीतमेव शास्त्रमाश्रित्येति ।
- ↑ वृद्धा न ते.