पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०३

पुटमेतत् सुपुष्टितम्
72
श्रीसरस्वतीविलासे

देशस्यानुमतेनैव व्यवस्था या निरूपिता ।
लिखिता तु सदा धार्या मुद्रिता राजमुद्रया ॥
शास्त्रवद्यवतो राजा तां निरीक्ष्य विनिर्णयेत्" ॥

इति । व्यवहारश्चरित्रेण निर्णेतव्य इति भावः ।

"देशपट्टणगोष्ठेषु पुरग्रामेषु वासिनाम् ।
तेषां स्वसमयैर्धर्मशास्त्रतोऽन्येषु तैस्सह"॥

इति । यत्र चैते हेतवो न विद्यन्ते तत्र राजाज्ञया निर्णयमाह बृहस्पतिः--

"लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः ।
प्रमाणानि न सन्त्येकं प्रमाणं तत्र पार्थिवः ॥
निश्चेतुं ये न शक्यास्स्युर्वादास्सन्दिग्धरूपिणः ।
तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर्यतः" ॥ इति ।
"व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम्" ॥

इति । स्वयं-- राजा । अन्वहं-- एतच्चतुर्दश्यादिव्यतिरिक्तविषयम् ।

"चतुर्दशी त्वमावास्या पौर्णमासी तथाऽष्टमी ।
तिथिष्वासु न पश्येत्तु व्यवहारपदं नृपः" ॥

इति हारीतोक्तेः । अन्यास्वपि तिथिष्वावर्तनादर्वागेव व्यवहारदर्शनम् ।

"आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः" ॥ इति ।

अस्मिन् भागत्रयपरिमिते काले व्यवहारान् पश्येदित्यर्थः ।

"लेखको गणकश्शास्त्रं साध्यपालस्सभासदः ।
हिरण्यमग्निरुदकमष्टाङ्गं करणं स्मृतम् ।