पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०५

पुटमेतत् सुपुष्टितम्
74
श्रीसरस्वतीविलासे

द्रप्रकाशनम्, अन्तःपुरवासगृहभाण्डागारमहानसेषु प्रवेशः, अनियोगेन भोजननिरीक्षणम्, विण्मूत्रश्लेष्मवातानां नृपाग्रतः प्रक्षेपकामना, राजविद्विष्टसेवा, अदत्तविहितासनं, सुवर्णवस्त्राभरणपरिधानम्, स्वयंगृहीतताम्बूलभक्षणं, अनियुक्तप्रभाषणं, नृपाक्रोशकरणं, एकवासोधारणं, अभ्यक्तत्वं, मुक्तकेशत्वम्, अवकुण्ठितत्वम्, विचित्राङ्गत्वम्, स्रग्वित्वम्, परिधानविधूननम्, शिरःप्रच्छादनम्, छिद्रान्वेषणतात्पर्यम्, दुर्जनसंसर्गः, दन्तकर्णाक्षिदर्शनम्, दन्तोल्लेखनम्, कर्णनासादिशोधनम् इत्येतानि पञ्चाशच्छलानि ।

"शास्त्राणि वर्णधर्मांस्तु प्रकृतीनां च भूपतिः ।
व्यवहारस्वरूपं च ज्ञात्वा कार्यं समाचरेत्"

प्रकृतयस्तु पितामहेन दर्शिताः-- रजक-चर्मकार-नट-बुरुड-कैवर्तक-म्लेच्छ-भिल्लादयः ।

वर्णानामाश्रमाणां तु सर्वदा च बहिस्स्थिताः ।

एते राजैकनिरता यद्यपि प्रकीर्णकाख्यविवादपद एव निर्णेतव्याः । तथापि प्रसङ्गादत्रोक्तिः । व्यवहारस्त्वष्टादशपदात्मकः प्राङ्निरूपितः ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद्व्यवहाराननुक्रमात् ॥

अर्थिवचनानुक्रमेणेत्यर्थः--

व्यवहारदर्शनचातुर्विध्यं.

आगमः प्रथमः कार्यो व्यवहारपदं ततः ।
विचारो निर्णयश्चेति दर्शनं स्याच्चतुर्विधम् ॥