पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११२

पुटमेतत् सुपुष्टितम्
81
व्यवहारकाण्डः

गुरुतरकार्यहानिः स कार्यातिपाती । व्यसनं-- विनष्टवियोगादिजं दुःखं तद्वान् व्यसनी । मत्तो-- मध्वादिमदनीयद्रव्यनाशितबुद्धिः । उन्मत्तोग्रहपित्तादिभिः । प्रमत्तस्सर्वावधानहीनः । आर्तो-- विषयादिना दुःखितः । भृत्यग्रहणमस्वतन्त्रस्त्रीणामुपलक्षणार्थम् । अतश्चाकल्यादिविषय एव प्रतिनिधिविधानं व्यवतिष्ठते ।

महाभियोगे सर्वेऽप्याह्वानयोग्याः.

 यदा त्वकल्यादिप्रहितप्रतिनिधिना न कार्यनिष्पत्तिः । तदा श्रकल्यादीनामप्याह्वानं कार्यम् । महाभियोगेषु अभियुक्तस्यैवाऽऽह्वानस्याऽऽवश्यकत्वात् । महाभियोगास्तु मनुष्यमारणस्तेयपरदाराभिमर्शनापेयपानानि । असभ्यवादेष्वप्यकल्यादय आह्वातव्या एव । असभ्यवादास्तु अभक्ष्यभक्षणकन्यादूषणपारुष्यकूटकरणनृपद्रोहादीनि । एतेषु प्रतिनिधिर्न कार्यः ।

अत्र व्यासः-

"उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचमानाय दौश्शील्यादाकृष्योऽसौ नृपाज्ञया ॥" इति ।

आहूतस्यानागमने अभियोगानुरूपदण्डः.

यस्तु नृपाज्ञया नाऽऽगच्छति तस्य दण्डमाह बृहस्पतिः--

"आहूतो यस्तु नागच्छेत् दर्पाद्बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥" इति ॥
"हीनकर्मणि पञ्चाशत् मध्ममे तु शतावरः ।
गुरुकार्येषु दण्डस्स्यात् नित्यं पञ्चशतावरः ॥"

 S.VILASA.
11