अनेकवादियुग्मानां युगपदुपस्थाने तु मनुः--
"अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णाश्रमौ च सर्वाणि पश्येत्कार्याणि कार्यिणाम्" ॥
प्रतिज्ञार्थस्थिरीकरणम्.
आवेदितं साध्यमेव लेख्यम् । न साध्यान्तरम् । न पुनर्यावदावेदितं तावदेव लेख्यमिति न्यायमाह याज्ञवल्क्यः--
"प्रत्यर्थिनोऽग्रतो लेख्यं यथाऽऽवेदितमर्थिना" ॥
इति । अत एवाऽऽह याज्ञवल्क्यः--
"समामासतदर्धाहर्नामजात्यादिचिह्नितम्" ।
इति । यदावेदितमिति कृत्वा चन्द्रिकाकारेण यत्साध्यमिति व्याख्यातम् । विज्ञानयोगिना तु यथाऽऽवेदितमिति पठित्वा यथा-- येन प्रकारेण पूर्ववेदनाकाल एवाऽऽवेदितं तथा न पुनरन्यथा, अन्यथावादित्वे तु भङ्गप्रसङ्गात् ।
"अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतव्यपवायी च हीनः पञ्चविधस्स्मृतः" ॥
इति । आवेदनाकाले अर्थिवचनस्य लिखितत्वात्पुनर्लेखनमनर्थकमित्यत आह-- समामासेत्यादि । यथेति थाल्प्रत्ययान्तं प्रकारवचनं कृत्वा व्याचक्षाणस्य विज्ञानेश्वरस्य आवेदनसमये यावल्लिखितं तावल्लेखनीयं, किन्तु साध्यमेव लेखनीयमित्याशयः । अन्यवादिवचनोदाहरणात् । अन्यवादित्वं नाम स्वसाध्यं विहाय साध्यान्तरस्वीकारः इति । अतो विज्ञानयोगीन्द्रचन्द्रिकाकारयोर्व्याख्यानप्रकारभेद एव नार्थभेदः । यथा