पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११७

पुटमेतत् सुपुष्टितम्
86
श्रीसरस्वतीविलासे

चाविरुद्धपदेनोच्यते । निश्चितम्-- अर्थान्तरशङ्कारहितं, साधनक्षमं-- साधनार्हं, संक्षिप्तम्-- अनतिविस्तृतम्, निखिलार्थम् अनवशेषितवक्तव्यम्, देशकालाविरोधि । मध्यदेशीयं क्रमुकक्षेत्रादि । शरत्कालीनमाम्रफलसाहस्रमपहृतमित्येवमादिविरोधरहितम् । शिष्टं व्यक्तार्थम् ।

स्थावरविषयावेदनपत्रिकालेखने विशेषः.

"जातिस्संज्ञा विवासश्च प्रमाणं क्षेत्रनाम च ।
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ॥
स्थावरेषु विवादेषु दशैतानि निवेदयेत्" ।

इति स्मरणात् । देशस्थानादयः स्थावरेष्वेवोपयुज्यन्ते । अधिवासः--समीपदेशवासी जनः । प्रमाणं-- गोचर्मादिपरिमाणम् । क्षेत्रनाम--शाल्यादिक्षेत्रविशेषं व्यक्तार्थम् । एतदुक्तं भवति-- समामासादीनां यस्मिन् व्यवहारे यावद्रूपं युज्यते तत्र तावल्लेखनीयमिति याज्ञवल्क्यवचनस्य तात्पर्यार्थः ।

हारीतोऽपि ।

"आसनं शयनं यानं कांस्यताम्रमयोमयम् ।
धान्यमश्ममयं वस्त्रं द्विपदं च चतुष्पदम् ॥
मणिमुक्ताफलादीनि हीरकं रौप्यकाञ्चनम् ।
यदि द्रव्यसमूहस्स्यात् सङ्ख्या कार्या तथैव च ॥
यस्मिन् देशे च यत्संख्या मानमानेन मीयते ।
तेन तस्मिन् तथा संख्या कर्तव्या व्यवहारिभिः" ॥

इति । तेन मानेन मीत्वा संख्या कार्येत्यर्थः ।