पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११९

पुटमेतत् सुपुष्टितम्
88
श्रीसरस्वतीविलासे

"ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।
असंभाव्यमसाध्यं तु पक्षमाहुर्मनीषिणः ॥"
"यस्मिन्नावेदिते पक्षे प्राड्विवाकेऽथ राजनि ।
पुरराष्ट्रविरुद्धं स्याद्विरुद्धस्सोऽभिधीयते ॥

इति । विज्ञानयोगिना तु अन्यथा व्याख्यातम्-- पक्षवदवभासमानाः पक्षलक्षणरहिताः पक्षाभासाः" इति पक्षाभासलक्षणमुक्त्वा--

"अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाऽऽभासं विवर्जयेत् ॥"

इति विशेषलक्षणान्युक्त्वा तानि व्याख्यातानि । व्याख्या प्रकारस्तु; यदाह विज्ञानयोगी-- अप्रसिद्धं-- मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्गृहप्रदीपप्रकाशेन अयं स्वगृहे व्यवहरतीत्यादि । इदमुदाहरणमुभयोस्समानम् । निरर्थकम्--अभिधेयरहितं कचटतपं गजडदबमित्यादि । निष्प्रयोजनं यथा-- अयं देवदत्तोऽस्मद्गृहसन्निधौ सस्वरमधीत इत्यादि । एतदुभयोस्समानं । असाध्यं यथा-- अहं देवदत्तेन सभ्रूभङ्गं हसित इत्यादि । विरुद्धं यथा- अहमनेन शप इत्यादि । पुरादिविरुद्धं वा । असाध्यस्योदाहरणं चन्द्रिकाकारेण निरर्थकोदाहरणं कृतम् । स्वल्पार्थो निरर्थकस्मृतेर्न दोषः । अत्राप्रसिद्धोदाहरणमसाध्यस्योदाहरणं कृतम् ।

"ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः" ।

इति वचनान्न दोषः । एवं विज्ञानयोगिना लोकप्रसिद्धिमपेक्ष्य हेत्वाभासा विवृताः ।