पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२०

पुटमेतत् सुपुष्टितम्
89
व्यवहारकाण्डः

चन्द्रिकाकारेण तु वचनानुरोधेन व्याख्यातमितीयान् भेदः । एतेषामसाध्यादीनां देवदत्तेन सभ्रूभङ्गं हसितमित्यादीनां साधनत्वासंभवादसाध्यत्वम् । अल्पकालत्वान्न साक्षिसंभवः । लिखितं दूरत एव अल्पत्वान्न दिव्यमिति ।

 नारदादिभिस्त्वन्ये भाषादोषा दर्शिताः । तेऽपि सर्वे पक्षाभासलक्षणलक्षितत्वाद्ग्राह्याः । ग्रन्थविस्तरभयान्न प्रपञ्चिताः । अत एव योगीश्वरेण पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धमेवेति न पृथक् पक्षाभासा उक्ताः । तथाऽपि दिङ्मात्रमुक्तमित्यवगन्तव्यम् ।

 यत्तु पितामहेनोक्तम्--

"अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति"

इति । यद्यत्र पदशब्दो वस्तुवाचकस्स्यात् तदा न दोषः, मदीयमनेन हिरण्यं वासो रूपकादि चापहृतमित्येवंविधस्यादृष्टत्वात् । यदि च अत्र पदशब्दः स्थानवाची ऋणादानादिपदसङ्करे पक्षाभाव इति चेत्, तदपि न, मदीयं रूपकमनेन वृद्ध्या गृहीतं सुवर्णं चास्य हस्ते निक्षिप्तम् मदीयं क्षेत्रमयमपहरति चेत्यादीनां पक्षत्वमिष्यत एव । किंतु-- क्रियाभेदात् क्रमेण व्यवहारभेदो न युगपदित्येतावत्.

"बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् ।
कामं तदपि गृह्णीयात् राजा तत्वबुभुत्सया"

इति कात्यायनस्मरणात्, अनेकपदसंकीर्णः पूर्वपक्षः युगपन्न सिध्यतीति वचनार्थः । भूमिशब्दः फलकादीनामुपलक्षकः ।

 S.VILAS.
12