पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२४

पुटमेतत् सुपुष्टितम्
93
व्यवहारकाण्डः

उभयोरुदाहरणं-- रूपकशतं मह्यं धारयतीत्युक्ते सत्यं धारयामीति संप्रतिपत्तिः । नाहं धारयमीति मिथ्या । प्रत्यवस्कन्दनं नाम गृहीतं प्रतिदत्तं प्रतिग्रहेण वा लब्धम् । यथाऽऽह नारदः--

"अर्थिना लिखितो योऽर्थः प्रत्यर्थिगदितं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥"

इति । प्राङ्न्यायोत्तरं तु यत्राभियुक्त एव ब्रूयात्-- अस्मिन्नर्थेऽहमनेनाभियुक्तः तत्र चायं व्यवहारमार्गेण पराजित इति ।

यथोक्तं हारीतेन--

"अस्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा ।
जितोऽयमिति चेद्ब्रूयात् प्राङ्न्यायस्स्यात्तदुत्तरम् ॥"

उत्तराभासाः

 एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानां उत्तरवदवभासमानानां उत्तराभासत्वमर्थसिद्धम् । अतो योगीश्वरादिभिः स्पष्टसिद्धत्वान्नोक्तम् । तथापीतरस्मृतिषु स्पष्टमुदाहरणात् दिङ्मात्रमुदाह्रियते-- अप्रसिद्धविरुद्धात्यल्पातिभूरिसन्दिग्धासंभाव्याव्यक्तान्यार्थातिदोषवदव्यापकव्यत्यस्तपद[१] निगूढार्थाकुलव्याख्यागम्यासारानुत्तरलक्षणा उत्तराभासाः । लाञ्छानावयवसंस्थानसङ्ख्यासमयानभिज्ञोक्तमदेशभाषयोक्तं चाप्रसिद्धं ।

"प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि"



  1. व्यग्तपद--B.