पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२७

पुटमेतत् सुपुष्टितम्
96
श्रीसरस्वतीविलासे

पराजित इति । एवं चतुष्कसङ्करेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यतस्याङ्गस्य तेनतेन विना असिद्धेः क्रमेणोत्तरत्वमेव । एतदुक्तं भवति-- यत्र पुनस्सर्वथा एकमसङ्कीर्णमुत्तरं न लभ्यते तत्रागत्वा एकैकांशमुत्तरं कृत्वा क्रमेणेकैकप्रतिज्ञाया एकैकमुत्तरं ग्राह्यम् । अन्यथा तत्र निर्णयाभावात् । अत एवोक्तं "सङ्करात्तदनुत्तरम्" इति । उक्तविधया सङ्करे निराकृते स्यादेवोत्तरमित्यभिप्रायः । यत्र सङ्करे यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन । यत्र संप्रतिपत्तेरुत्तरान्तरस्य च सङ्करः तत्र उत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाया प्रभावात् । हारीतस्तु--

"मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे ।
सत्यं चापि सहान्येन तत्र ग्राह्यं किमुत्तरम्" ॥

इत्युक्त्वा--

यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र विज्ञेयमसङ्कीर्णमतोऽन्यथा ॥"

इत्युक्तम्--

अतोऽन्यथा सङ्कीर्णं भवतीति शेषः ।

अत एव पक्षव्यापकानेकोत्तरविषये नारदः--

"मिथ्याकारणयोर्वाऽपि ग्राह्यं कारणमुत्तरम् ॥"

इति कारणस्यानन्यथासिद्धत्वात् । मिथ्यातो गुरुत्वादित्यभिप्रायः । अतश्चोत्तरान्तरसन्निपातेऽपि गुरुतरं ग्राह्यम् । अस्मिन्