पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२९

पुटमेतत् सुपुष्टितम्
98
श्रीसरस्वतीविलासे

भावात् । तस्मादेतत्सकारणमिथ्योत्तरम् । अत्र प्रतिवादिनः क्रिया "कारणे प्रतिवादिनि" इति वचनात् । ननु, "मिथ्याक्रिया पूर्ववाद" इति पूर्ववादिनः कस्मात् क्रिया न भवति । तस्य च शुद्धस्याविषयत्वात् । नन्वेवं "कारणे प्रतिवादिनि" इति वचनं शुद्धकारणविषयं कस्मान्न भवतीति चेत्, मैवम् सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूपत्वात् । शुद्ध कारणस्योत्तरस्याभावात् । प्रसिद्धकारणोत्तरे प्रतिज्ञातार्थे एकदेशस्याभ्युपगमेन एकदेशस्य मिथ्यात्वम् । यथा "सत्यं रूपकशतं गृहीतं न धारयामि दत्तस्वात्" इत्येकदेशस्याभ्युपगमोऽस्ति, प्रकृतोदाहरणे तु प्रतिज्ञतार्थस्यैकदेशस्याभ्युपगमो नास्तीति शेषः । एवं निरूपितमुत्तरं प्रतिवादिना स्वत एव देयम् ।

तत्राभियोगानुगतमृत्तरं प्रतिवादिना ।
निष्कृष्यार्थं प्रदेयं स्यात् दोषसंज्ञाविवर्जितम् ॥

इति स्मृतेः । यदा पुनः स्वयमेव ददाति उत्तरप्रदानकालश्चातिक्रान्तः, तदा--

"पूर्वपक्षे यथार्थं तु न दद्यादुत्तरं यदा ।
प्रत्यर्थी दापनीयस्स्यात् सामादिभिरुपक्रमैः" ॥

इति । दापनीयो नृपेणेति शेषः ।

यथार्थमुत्तरं दद्यात् अथ तद्दापयेन्नृपः ।

इति स्मृतेः । सामादिसप्तोपायाः प्रकरणादावेवोक्ताः । एतैरप्युपायैरसाध्यं प्रत्याह हारितः--