पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३५

पुटमेतत् सुपुष्टितम्
104
श्रीसरस्वतीविलासे

कामत इति शेषः । अकायतस्तु--

"आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् ।
नोपस्थितो यदा कश्चित् छलं तत्र न कारयेत् ॥"

आचारकरणं-- व्यवहारनिर्णयः । तत्रापि विशेषो दर्शितः ।

"हीनोऽन्यवाक्येन बुधः तस्योद्धारं विदुर्बुधाः ।
स्ववाक्यभिन्नो यस्तु स्यात् तस्योद्धारो न विद्यते ॥

मनुरपि-

"आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तेर्गतं मनः"॥

दुष्टमिति शेषः ।

सन्धिप्रकारः.

बृहस्पतिस्तु सन्धिप्रकारमाह--

"पूर्वोत्तरे तु लिखिते प्रकृते कार्यनिर्णये ।
द्वयोस्सन्तप्तयोस्सन्धिस्स्यादयःपिण्डयोरिव ॥
साक्षिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि ।
डोलायमानयोः सन्धिं प्रकुर्यातां विचक्षणौ ॥
प्रमाणसंमतो यत्र भेदश्शास्त्रचरित्रयोः ।
तत्र राजाज्ञया सन्धिरुभयोरपि शस्यते" ॥

इति । एकस्य वादिन एकान्ते पराजयादर्वाक् सन्धिं प्रकुर्यातां तौ विचक्षणावित्यर्थः ।

उभयोः सन्ध्यनङ्गीकारे सभ्यकृत्यम्.

 उभयोस्सन्ध्यनङ्गीकारे सभ्यकृत्यमाह बृहस्पतिः--