पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३९

पुटमेतत् सुपुष्टितम्
108
श्रीसरस्वतीविलासे

कार्या, चतुर्थे प्राङ्न्यायोत्तरे साक्षिजयपत्रयोरन्यतरावलम्बनेनैव निर्णयः, तत्र दिव्यावतार इत्यक्षरार्थः । संप्रतिपत्तौ भाषायामुत्तरे च साध्यार्थाभावात् द्द्विपाद्व्यवहारोऽयम् ।

द्विपाद्व्यवहारनिर्णयः.

तथा च कात्यायनः--

"मिथ्योक्तौ स चतुष्पात्तु प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रति पत्तिषु" ॥

 येन संप्रतिपत्तौ क्रियानिर्देशाद्यभावात् उत्तरान्त एव व्यवहारस्समाप्यते । एवं च मिथ्याकारणयोर्मानुषी दैविकी वा, प्राङ्न्याये तु मानुष्येव, सत्ये तु न कदाचिदिति तात्पर्यार्थः ।

क्वचित् साक्षिषु सत्स्वपि अवश्यं दिव्यनियमः.

क्वचिद्दिव्यनियममाह--

महाशापाभिशप्तेषु निक्षेपहरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्वपि साक्षिषु ॥

कात्यायनोऽपि-

"प्राणान्तिकविवादे च विद्यमानेषु साक्षिषु ।
दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः" ॥

बृहस्पतिरपि--

"लिखिते साक्षिवादे च सन्देहो जायते यदा ।
अनुमाने च संभ्रान्ते तत्र दैवं विशोधनम्" ॥