पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४५

पुटमेतत् सुपुष्टितम्
114
श्रीसरस्वतीविलासे

व्यासोऽपि--

"साक्षिणस्तु स्वहस्तेन पितृनामपूर्वकं लिखेयुः"

इति । ते च गुणैश्च सङ्ख्यया समा एव, न विषमाः । संख्यासाम्यमदृष्टार्थं प्राबल्यार्थं वा । गुणसाम्यं दृष्टार्थम् । साक्षिण इति बहुवचनं गूरुकार्यलेख्यविषयम् ।

"उत्तमर्णाधमर्णौ च साक्षिणौ लेखकस्तथा ।
समवायेन चैकेषां लेख्यं कुर्वीत नान्यथा" ॥

इति हारीतेन लेख्यमात्रे साक्षिणाविति द्वित्वोक्तेः । अतश्च उत्तमर्णाधमर्णसाक्षिलेखकलेखनीयरूपपञ्चविधगमकारूढत्वात् तदभेदात्पत्रस्य लेख्यं पञ्चारूढमिति लौकिकप्रसिद्धिः । ननु "पत्रं हि लिपिसंयुक्तमुच्यते" इत्यस्य लिपेर्लेखनीयार्थनिरूपकतया तदभेदात्पत्रस्य तदारूढत्वोक्तिः पञ्चसङ्ख्योक्तिश्चायुक्तेति चेत्, मैवम्, यथा लेख्यस्य लेखकनिरूपकतया तदभेदेऽपि तद्गतविशेषाकारस्वीकारेण लेखकारूढत्वोक्तिरविरुद्धा तथैवात्रेति । यद्यपि स्वहस्तलेख्ये लेखकाभावात् पञ्चारूढत्वं नास्ति, तथापि तस्मिन्नवस्थाद्वयविवक्षयाऽवस्थितं गमकत्वमवलम्ब्य तदुक्तिर्न विरुद्धा । न च वाच्यं-- स्वहस्तलेख्यसाक्ष्यभावपक्षे पञ्चारूढत्वं गौणमिति, साक्षिकृत्यं स्वकृत्यलिपावेव तिष्ठति । स्वस्यैव साक्षित्वाङ्गीकारात् । केचित्त्वन्यकृतलेख्ये पञ्चारूढत्वं पत्रस्येत्याहुः । चन्द्रिकाकारादयस्तु अन्यकृतलेख्यस्य उत्तमर्णाधमर्णसाक्षिद्वयलेखकरूपपञ्चपुरुषारूढत्वात् पञ्चारूढं पत्रमिति लोकव्यवहारः, साक्षिसङ्ख्याधिक्ये त्वयं व्यवहारो गौण इति मन्तव्य इत्याहुः । तस्मिन्मते पञ्चशब्दः पुरुषमात्रपरो न तु