पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५२

पुटमेतत् सुपुष्टितम्
121
व्यवहारकाण्डः

इति स्मरणात् । यत्तु हारीतवचनं--

"न मयैतत्कृतं पत्रं कूटमेतेन कारितम् ।
प्रधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः" ॥

इति, तत्तु साक्ष्यभावविषयम् ।

शासन शुद्धिः.

शासनमधिकृत्याह प्रजापतिः--

"कार्यो यत्नेन महता निर्णयो राजशासने ।
राजस्वहस्ततन्मुद्रालेखकाक्षरदर्शनात् ॥

कात्यायनः--

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं [१]सचिह्नितम् ।
राजस्वहस्तसंशुद्धं शुद्धिमायाति शासनम्" ॥

इति । क्रियाशुद्धमपशब्दानन्वयादि रहितम् ।

विंशतिवर्षोपभोगानन्तरं लेख्यशुद्धिः.

जानपदलेख्यमपि क्वचिदुक्त्या शुद्धिमायातीत्याह स एव--

"शक्तस्य सन्निधावर्थो [२]यस्य लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम्" ॥

स्मृत्यन्तरे तु--

"अथ विंशतिवर्षाणि आधेः भुक्तेस्स निर्णयः ।
येन लेख्येन तत्सिद्धं लेख्यं दोषविवर्जितम् ॥
सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्याः यावद्वर्षाणि विंशतिः" ॥



 S.VILASA.
16
 
  1. स चिह्नकम्. स्मृ-वं-वा.
  2. येन. स्मृ-वं-पा.